एतत् पृष्ठम् अपरिष्कृतम् अस्ति

cray लघुपाणिनीये [समासप्रक० इत्युपसर्जनस्य दन्तशब्दस्य परप्रयोगः । गणे निपातनादनुपसर्जन खापि कचित् परप्रयोगः, कार्यान्तराणि च । राजदन्तः, अग्रेवण, भार्यापती, जम्पती इत्यादि । ४१६ १६१६ । द्वन्द्वे घि । (२-२-३२) द्वन्द्वे घिसंज्ञं पूर्व प्रयोज्यम् । हरिहरौ, पटुगुप्तौ । १६१७ । अजाद्यदन्तम् | (२-२-३३) द्वन्द्वे अजादि अदन्तं च पदं पूर्वम् । उष्ट्रखरम् । ॥ * ॥ बहुष्वनियमः - अश्वरथेन्द्राः, इन्द्ररथाश्वा वा । १६१८ । अल्पाच्तरम् । (२-२-३४) प्लक्षन्यप्रोधौ । धवखदिरपलाशाः । - ॥ * ॥ अभ्यर्हितं पूर्वम् ॥ युधिष्ठिरार्जुनौ । सर्वेयं व्यवस्था प्रायिकी । १६१९ । सप्तमीविशेषणे बहुव्रीहौ । (२-२-३५) सर्वोपसर्जनत्वादनियमे प्राप्ते नियमार्थ वचनम् । सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्व प्रयोज्यम् । यथा - कण्ठेकालः, उरसिलोमा — अत्र अलुग्वक्ष्यते । चित्रगु, पीताम्बरः, उष्णरश्मिः, कृशाङ्गी । - - सप्तम्या: पूर्वनिपांतविधानाज्ज्ञापकादेव व्यधिकरणो बहुव्रीहिः । ज्ञापक सिद्धमेव वॉत्तिककारेण व्याख्यातं 'सप्तम्युपमानपूर्वपदस्य' इति । सर्वनामसङ्घययोरुपसङ्ख्यानम् – सर्वश्वेतः, द्विशुक्लः। १. २. वा प्रियस्य पूर्वनिपातः– प्रियगुडः, गुडप्रियः । ३. गड्वादिभ्यः सप्तम्यन्तं परं-गडकण्ठः, कण्ठगडुः । ४. प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ । प्रायिकं चेदं निष्ठायाम् ॥ चक्रपाणिः, पिनाकपाणिः । अस्युद्यतः उद्यतासिर्वा । - ५. जातिकालसुखादिभ्यो निष्टायाः परनिपातः || पलाण्डुभक्षिती, मानसजातः, सुखजातः । इदमपि प्रायिकम् । यकम्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४३५&oldid=348032" इत्यस्माद् प्रतिप्राप्तम्