एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१८ लघुपाणिनीये [समासप्रक० स्त्रिया सहोक्तौ पुमान् शिष्यते, स्त्रीपुंसलक्षणश्चेदेव विशेषः । कुक्कुटश्च कुक्कुटी च कुक्कुटौ | युवा च युवतिश्च युवानौ । १६२६ । भ्रातृपुत्रौ स्वसृदुहितृभ्याम् । (१-२-६८) भ्राता च वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ । १६२७ । नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् । (१-२-६९) लिङ्गमात्रलक्षणे विशेषे, अक्कीबेन सहोक्तौ क्लीबं शिष्यते, तस्यैक- वचनं च वा । यथा- = शुक्लश्च कम्बलः, शुक्ला च बृहतिका, शुक्लं च वस्त्रं, तदिदं शुक्लम् । तानीमानि शुक्लानि । १६२८ । पिता मात्रा । (१-२-७०) अन्यतरयामित्येव । माता च पिता च पितरौ । मातापितरौ वा । पूर्वपदस्य आत्वं वक्ष्यते । १६२९ । श्वशुरः श्वश्रा । (१-२-७१) श्वश्रूश्च श्वशुरश्च श्वशुरौ । श्वश्रूश्वशुरौ वा । १६३० । त्यदादीनि सर्वैर्नित्यम् । (१-२-७२) सर्वैः सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते । यथा— स च देवदत्तश्च तौ । अयं च देवदत्तश्च इमौ । त्वं च सर्वे लोकाश्च यूयम् । अहं च प्रामजनाश्च वयम् । त्यदादीनां मिथस्सहोक्तौ परं परं शिष्यते । स चायं च इमौ । अयं च त्वं च युवाम् । त्वं चाहं च आवाम् । समासेषु लिङ्गवचनव्यवस्था || १६३१ । द्विगुरेकवचनम् । (२-४-१आहताखिलोकी समाहारे द्विगुरेकवचनं स्यात् । त्रयो लोकाः समाहृतास्त्रिलोकी ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४३७&oldid=348034" इत्यस्माद् प्रतिप्राप्तम्