एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लिङ्गव्यवस्था] आकाङ्क्षाकाण्डः । ४२१/ अयं नपुंसकं स्यात् । अव्ययत्वेन लिङ्गाभावेऽपि 'ह्रस्वो नपुं- सके...' इति ह्रस्वसिद्ध्यर्थं क्लीबत्वविधानम् । यथा— अधिस्त्रि । उपकुमारि । पारेगङ्गम् । ॥ * ॥ क्रियाविशेषणानां च क्लीबतेष्यते ॥ एषां कर्मणि द्वितीयोक्ता । अतः क्रियाविशेषणानि नपुंसक- द्वितीयैकवचनान्तानि । यथा- मृदु पचति । स्फुटदन्तश्रि वदति । प्रकटितप्रेम लिखितम् । १६४३ । तत्पुरुषोऽनञ्कर्मधारयः । (२-४-१९) नञ्समासं कर्मधारयं च वर्जयित्वा तत्पुरुषो नपुंसकमित्यधिक्रियते । १६४४ । उपज्ञोपक्रमं तदाद्याचिख्यासायाम् । (२-४-२१) उपज्ञान्त उपक्रमान्तश्च तत्पुरुषो नपुंसकं उपज्ञेयस्योपक्रम्यस्य चार्थस्यादित्वमाख्यातुमिष्यते चेत् । न तु नसमासकर्मधारययोः । यथा— पाणिनेरुपज्ञा पाणिन्युपज्ञं प्रन्थः- :- पाणिनिना प्रथमं विज्ञाय प्रणीतः । नन्दस्योपक्रमो नन्दोपक्रमं द्रोणः –नन्देन प्रथमं प्रवर्तितः । 20 हम १६४५ । छाया बाहुल्ये । (२-४-२२) न्यप्रोधच्छायम् | वैरल्ये तु शाकोटच्छाया | अबाहुल्येऽपि विकल्पं वक्ष्यति । - १६४६ । सभा राजामनुष्यपूर्वा । (२-४-२३) राजशब्दे पर्यायग्रहणमात्रम् | अमनुष्या रक्षःपिशाचादयः । यथा – इनसभम्, ईश्वरसभं, रक्षस्सभं, पिशाचसभम् । पर्यायेष्वपि नृपसभा, क्षिति- पालसभा इत्यादि यौगिकपदपूर्वत्वे स्त्रीलिङ्ग एव दृश्यते ॥ - १६४७ । अशाला च । (२-४-२४) mes सङ्घातवाची सभाशब्दोऽपि क्लीबम् । स्त्रीसभम् । १६४८ । विभाषा सेनासुराच्छायाशालानिशानाम् । (२-४-२५) ब्राह्मणसेनं,–ना । यवसुरं, रा । तृणच्छायं,-या IS गोशालं,-ला । श्वनिशं, शा । — कृष्णचतुर्दश्याः संज्ञेयम् । -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४४०&oldid=348037" इत्यस्माद् प्रतिप्राप्तम्