एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये १६४९ । परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः । (२-४-२६) इतरेतरद्वन्द्वस्य तत्पुरुषस्य चोत्तरपदस्येव लिङ्गं स्यात् ।। कुक्कुटमयूर्याविमे, मयूरीकुक्कुटाविमौ । अर्धे पिप्पल्या अर्धपिप्पली । पूर्के कायस्य पूर्वकायः । ४२२ [समासप्रक० १६५० । राताङ्ग्राहाः पुंसि । (२-४-२९) पूर्वरात्रः, सायाह्नः, यहः । एषु समासान्तो वक्ष्यते । संख्यापूर्व रात्रं क्लीबम् । त्रिरात्नं, गणरात्रम् । पुण्यसुदिनाभ्यामह्नः क्लीबतेष्टा । पुण्याहम् । सुदिनाहम् । १६५१ । अपथं नपुंसकम् । (२-४-३०) १६५२ । अर्धर्चाः पुंसि च । (२-४-३१) ऋचोऽर्धम् अर्धर्च, च वा । - इह गणे बहवः केवलशब्दा एव पठिताः । पुन्नपुंसकशब्दाः सर्वेऽप्यस्मिन् गणे पठनीयाः ॥ बहुव्रीहेरन्यपदार्थप्रधानत्वाद्विशेष्यानुसारेण लिङ्गमिति प्रकाशमेव । पूर्वपदकार्याणि ॥ १. अलुक् ॥ १६५३ । अलुगुत्तरपदे । (६-३-१) अळुगित्यानपर्यन्तम्, उत्तरपदे इत्या पादपरिसमाप्तेश्चाधि- क्रियते । अलुक् 'सुपो धातुप्रातिपदिकयोः' इति लुकोऽभावः ॥ १६५४ । पञ्चम्याः स्तोकादिभ्यः । (६-३-२) एभ्यः पञ्चम्या पवम्या

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४४१&oldid=348038" इत्यस्माद् प्रतिप्राप्तम्