एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अलुक् ] आकाङ्क्षाकाण्डः । ४२३ लुक् न खादित्यर्थ: । 'स्तोकान्तिकदूरार्थकृच्छ्राणि चेन' (२-१-६९) इति पञ्चमीतत्पुरुषविधावुपात्ताः स्तोकादयः । स्तोकान्मुक्तम्, अन्तिकादागतं, दूरादागतं, कृच्छ्राल्लब्धम् इत्यादि । १६५५ । ओजःसहोऽम्भस्तमसस्तृतीयायाः । (६-३-३) ॥ * ॥ अञ्जस उपसंख्यानम् ॥ ओजसाकृतं, सहसाकृत, अजसाकृतम् । १६५६ । आत्मनश्च । (६-३-६) पूरण इति वक्तव्यम् । आत्मनाचतुर्थः, आत्मनाद्वितीयः इत्यादि । । १६५७ । वैयाकरणाख्यायां चतुर्थ्या: । (६-३-७) १६५८ | परस्य च । (६-३-८) आत्मनेपदम्, आत्मनेभाषा । परस्मैपदं, परस्मैभाषा । १६५९ । हलदन्तात् सप्तम्याः संज्ञायाम् । (६-३-९) त्वचिसारः, युधिष्ठिरः । १६६० । अमूर्धमस्तकात्स्वाङ्गादकामे । (६-३-१२) कण्ठेकालः, उरसिलोमा । १६६१ । तत्पुरुषे कृति बहुलम् । (६-३-१४) स्तम्बेरमः, कर्णेजपः, परुहं, वनेचरः । १६६२ | प्रावृद्छरत्कालदिवां जे । (६-३-१५) प्रावृषिजः, शरदिजः, कालेजः, दिविजः । अन्यत्र पङ्कजमित्येव । बाहुलकात् – मनसिजः, मनोजः इत्युभयमपि । १६६३ । घकालतनेषु कालनाम्नः (वा) । (६-३-१७) सप्तम्या अलुग्वा । तरप्तमपौ घः । यथा- पूर्वाह्नतरे, पूर्वाह्नतरे । पूर्वाह्नकाले, पूर्वाह्नकाले इत्यादि । १६६४ । शयवासवासिष्वकालात् । (६-३-१८) सप्तम्या अलुग्वा । खेशयः, खशयः इत्यादि । १६६५ । नेन्सिद्धबध्नातिषु च । (६-३-१९) GDE इन्नन्तादिषु सप्तम्या अलुङ् न । स्थण्डिलशायी, साङ्काश्यसिद्धः, चक्रबन्धः । १

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४४२&oldid=348039" इत्यस्माद् प्रतिप्राप्तम्