एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्वम् ] आकाङ्क्षाकाण्डः । ४. ङयन्तहस्वः ॥ ४ १६८२ । घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङयोsनेकाचो ह्रस्वः । (६-३-४३) भाषितपुंस्काद्यो ङी तदन्तस्यानेकाचो ह्रस्व: स्यात् घरूपादिषु परेषु चेलडादिषु चोत्तरपदेषु । यथा- ब्राह्मणितरा, ब्राह्मणिरूपा, ब्रह्मणिब्रुवा इत्यादि । चेलडादयः कुत्सावाचकाः । १६८३ । नद्याः शेषस्यान्यतरस्याम् । (६-३-४४) अङचन्तनद्या ङचन्तयैकाचश्च घादिषु वा ह्रस्वः । ब्रह्मबन्धूतरा, ब्रह्मबन्धुतरा, स्त्रीतरा, स्त्रितरा । कृन्नद्या न । लक्ष्मीतरा । ४२७ १६८४ । उगितश्च । (६-३-४५) - उगिन्नद्या वा ह्रस्वः । यथा – विदुषितरा । विद्वत्तरा । ह्रस्वाभावे 'तसिलादिष्वा कृत्वसुचः' इति पुंवद्भावः । ५. आत्वम् ॥ १६८५ । आन्महतः समानाधिकरणजातीययोः । (६-३-४६) महत आकारोऽन्तादेशः समानाधिकरणे उत्तरपदे जातीयप्रत्यये च परे । यथा – महान् चासौ राजा च महाराजः । महागिरिः । स्त्रियामपि पुंवद्भावानन्तरमात्वं — महानदी । १६८६ । द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः । (६-३-४७) द्वौ च दश च द्वादश । द्वाविंशतिः । द्वात्रिंशदित्यादि । अष्ट च दश च अष्टादश । अष्टाविंशतिः । अष्टात्रिंशत् । बहुव्रीहौ तु द्वित्राः । अशीत्यामपि—द्यशीतिः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४४६&oldid=348043" इत्यस्माद् प्रतिप्राप्तम्