एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आदेशा:]] आकाङ्क्षाकाण्डः । ७. नञ आदिलोपः ॥ १६९३ । नलोपो नञः । (६-३-७३) नञो नकारस्य लोप उत्तरपदे । न ब्राह्मणः- अब्राह्मणः । ४२९ १६९४ । तस्मान्नुडचि । (६-३-७४) लुप्तनकारान्नञः परस्याचो नुडागमः । न आदिः अनादिः । अ, न, अन्, अन इति चत्वारो निषेधार्थका निपाताः । तेषु 'अ' हलादिनैव समस्यते । 'अन्' अजादिनैव । 'न' -कारस्तूभयेनापि । 'अन' इत्यका- रान्तोऽतीव विरलप्रयोगः । अनेन नैकम्, अनेकं, नगः, अगः, इत्युभ- यथाप्रयोगा व्याख्याताः ॥ ८. आदेशाः ॥ Moel १६९५ । वोपसर्जनस्य (सहस्य सः) । (६-३-८२) उपसर्जनस्य सहशब्दस्य सभावो वा । —सहपुत्रः—सपुत्रः । १६९६ । ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्ण- वयोवचनबन्धुषु (समानस्य सः)। (६-३-८५) एषूत्तरपदेषु समानस्य सभावः । सज्योतिः सनाभिरित्यादि । दृग्हशवतुषु (११२०) (व्याख्यातमिदम्) सदृक्—सदृशः । १६९७ । अषष्ठ्यतृतीयान्तस्यान्यस्य दुगाशीराशास्थास्थितो- त्सुकोतिकारकरागच्छेषु । (६-३-९९) अन्यशब्दस्य दुगागम: स्यादाशीरादिषु परेषु । न तु षष्ठ्यन्तस्य तृतीयान्तस्य च । कारके च्छे च नायं निषेध इष्यते । यथा- - अन्यदाशी:, अन्यदाशा, अन्यदास्था, अन्यदास्थितः, अन्यदुत्सुकः, अन्यदूतिः, अन्यत्कारकः, अन्यद्रागः, अन्यदीयः । यदुस्खकः धन्यव

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४४८&oldid=348045" इत्यस्माद् प्रतिप्राप्तम्