एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समासान्ता:] आकाङ्क्षाकाण्डः । ४३१ (घन्ते उत्तरपदे उपसर्गस्य बहुलं दीर्घः, न तु मनुष्ये वाच्ये । परीपाकः, परिपाकः । मनुष्ये तु निषादः ॥ । १७०८ । अन्येषामपि दृश्यते । (६-३-१३७) उत्तरपदे अन्येषामपि दीर्घो दृश्यते । यथाप्रयोगं दीर्घो द्रष्टव्य इत्यर्थः । अनेन ‘तत्र तेनेदमिति' बहुव्रीहौ पूर्वपदस्य दीर्घः । दण्डादण्डि, मुष्टीमुष्टि, बाहूवाहवि ॥ 1300 उत्तरपदकार्याणि ॥ १७०९ । समासान्ताः । (५-४-६८) तद्धिताधिकारस्यान्त्यभागेऽयमधिकारः। तेन तद्धितकार्याण्यूह्यानि । १७१० । न पूजनात् । (५-४-६९) पूजावाचकात् समासान्तो न । सु, अति इति निपातद्वयमेवात्र पूजावाचकं विवक्षितम् । यथा – शोभनो राजा सुराजा, अतिराजा 'राजाहः सखिभ्य' इति टच् समासान्तो न भवति ॥ अतिराजा । अत्र - १७११ । किमः क्षेपे । (५-४-७०) कुत्सितार्थककिंशब्दघटितात् समासान्तो न । कुत्सितो राजा किंराजा । अत्रापि टच् प्राप्तः ॥ १७१२ । नञस्तत्पुरुषात् । (५-४-७१) राजा न भवतीत्यराजा । तत्पुरुषादिति नियमात् धूरस्य नास्तीत्यधुरं शकटमिति बहुव्रीहौ अप्रत्ययस्समासान्तो भवत्येव ॥ १७१३ । पथो विभाषा । (५-४-७२) नञ्पूर्वात् पथ्यन्तात्तत्पुरुषाद्वा समासान्तः ।—अपथम्, अपन्थाः । निषेधं पूर्वमेवोक्त्वा समासान्तान् विदधाति —

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४५०&oldid=348047" इत्यस्माद् प्रतिप्राप्तम्