एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [समासप्रक० १७२८ । अव्ययीभावे शरत्प्रभृतिभ्यः । (५-४-१०७) उपशरदम्, अध्यनसम् इत्यादि । ४३४ १७२९ । अनश्च । (५-४-१०८) उपराजम्, अध्यात्मम् । १७३० । नपुंसकादन्यतरस्याम् । (५-४-१०९) अधिवर्त्म,-र्त्मम् । १७३१ । झयः । (५-४-१११) उपसमिधम्, उपसमित् । १७३२ । बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् पच् । (५-४-११३) स्व।ङ्गवाचिसक्थ्यक्ष्यन्तात् बहुव्रीहे: षच् । पृथुसक्थः । पङ्कजाक्षः । षित्त्वात् ङीप् । पृथुसक्थी, पङ्कजाक्षी । अस्वाङ्गाभ्यां तु – दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । 'अक्ष्णोऽदर्शनात्' इत्यच् ॥ - १७३३ । अप्पूरणीप्रमाण्योः । (५-४-११६) पूरणप्रत्ययान्तस्त्रीलिङ्गान्तात् प्रमाणीशब्दान्ताच्च बहुव्रीहेरप् । कल्याणी पञ्चमी यासां ताः – कल्याणीपञ्चमा रात्रयः | - १७३४ | सुप्रातसुश्वसुदिव शारिकुक्षचतुरथैणीपदाजपदप्रोष्ठपदाः (५-४-१२० ) एते बहुव्रीहावच्प्रत्ययान्ता निपात्यन्ते । शोभनं प्रातर्यस्य सुप्रातं दिनम् । १७३५ । नन्दुस्सुभ्यो हलिसक्थ्योरन्यतरस्याम् । (५-४-१२१) अहलः, अहलिः । असक्थः असक्थिः । १७३६ । नित्यमसिच्मजामेधयोः । (५-४-१२२) नदुस्सुभ्य इत्येव । अप्रजाः, सुप्रजाः, दुष्प्रजाः, अमेधाः, दुर्मेधाः, सुमेधाः । १७३७ । धर्मादनिच् केवलात् । (५-४-१२४) केवलात् पूर्वपदात्परात् धर्मशब्दादनिच् बहुव्रीहौ । द्विपदे बहुव्री- हावित्यर्थः । कल्याणधर्मा। सन्दिग्धसाध्यधर्मा इत्यादौ कर्मधारयपूर्वपदत्वं कल्प्यम् । एवं चानेकपदे सामानाधिकरणे बहुव्रीहौ विकल्पः फलितः ।ation

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४५३&oldid=348050" इत्यस्माद् प्रतिप्राप्तम्