एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समासान्ता:] आकाङ्क्षाकाण्डः । १७३८ । इच् कर्मव्यतीहारे। (५-४-१२७) 'तत्र तेनेदमिति सरूपे' इति कर्मव्यतीहारे बहुव्रीहिर्विहितः । तस्मादिच् समासान्तः । केशाकेशि, मुसलामुसलि ॥ १७३९ । ऊधसोऽनङ् । (५-४-१३१) ‘अल्लोपोऽनः '—कुण्डोनी । ANUAR १७४० । जायाया निङ् । (५-४-१३४) रमा जाया यस्य स रमाजानिः । ङित्त्वादन्तादेशो निङ् । यकारस्य 'लोपो व्योर्वलि' इति लोपः । १७४१ । गन्धस्येदुत्पूतिसुसुरभिभ्यः । (५-४-१३५) उद्गन्धिः, पूतिगन्धिः, सुगन्धिः, सुरभिगन्धिः । १७४२ । अल्पाख्यायाम् । (५-४-१३७) सूपगन्धि भोजनम् । १७४३ । उपमानाच्च । (५-४-१३८) मयगन्धि । १७४४ | उरःप्रभृतिभ्यः कप् । (५-४-१५१) व्यूढोरस्कः, प्रियसर्पिष्कः । पुमान्, अनड्डान्, पयः, नौः, लक्ष्मीः इति शब्दा अत्र गणे एकवचनान्ताः पठिताः । अतो बहुवच- नान्तेभ्यो वक्ष्यमाणो वैकल्पिक: कबेव । द्विपुमान्, द्विपुंस्को वा प्रामः । १७४५ । इनः स्त्रियाम् । (५-४-१५२) बहुवाग्मिका सभा। पुंसि तु बह्वनुजीवी, बह्रनुजीविको वा राजा । १७४६ । नघृतश्च । (५-४-१५३) नद्युत्तरपदादृदन्तोत्तरपदाच्च बहुव्रीहे: कप् । बहुकुमारीकं गृहम् बहुभर्तृका भूमिः । १७४७ । शेषाद्विभाषा । (५-४-१५४) अनुक्तसमासान्ताद्वहुव्रीहे: कब्वा । महायशाः महायशस्को वा ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४५४&oldid=348051" इत्यस्माद् प्रतिप्राप्तम्