एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये सुडागमः ॥ १७४८ । सुद् कात्पूर्वः । (६-१-१३५) ॥ * ॥ अडभ्यासव्यवायेऽपीति वक्तव्यम् ॥ इत्यधिकृत्य – १७४९ । सम्परिभ्यां करोतौ भूषणे । (६-१-१३७) १७५० । समवाये च । (६-१-१३८) [समासप्रक० सम्परिपूर्वस्य करोतेः कात्पूर्वः सुडागम: स्यात् भूषणे समावये चार्थे । संस्करोति । संचस्कार् । समस्करोत् । परिष्करोति । परिचिष्कीर्षा । पर्यस्करोत् । समवायस्सङ्घातः । ‘संस्कृतं भक्षाः' इति ज्ञापकादर्थान्तरेष्वपि सुट् । १७५१ । उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च । (६-१-१३९) चात् भूषणसमवाययोः । प्रतियत्नो गुणाधानम् । वैकृतं विकारः । वाक्याध्याहार आकाङ्क्षितैकदेशपूरणम् । उपस्कृता कन्या –भूषिता । उपस्कृता ब्राह्मणाः—समुदिताः । लवणं तेमनस्योपस्कुरुते – गुणमादधाति । उपस्कृत मोदनं —विकृतमित्यर्थः । उपस्कृतं ब्रूते - साकाङ्क्षापूरणम् ॥ - - १७५२ । किरतौ लवने । (६-१-१४०) उपादित्येव—उपस्किरति । उपस्कीर्णम् । - प्रायश्चित्तं प्रायश्चित्तिः । १७५३ । हिंसायां प्रतेश्च । (६-१-१४१) उपप्रतिभ्यां किरतेस्सुद् । उपस्किरति, प्रतिष्किरति । १७५४ । अपाच्चतुष्पाच्छकुनिष्वालेखने । (६-१-१४२) हर्षजीविकाकुलायकरणेष्वेव सुट्, तदा किरतेरात्मनेपदं च । अपस्किरतं वृषो हृष्टः । कुक्कुटो भक्षार्थी । श्वा आश्रयार्थी । भूमिमालिखतीत्यर्थः । १७५५ । पारस्करप्रभृतीनि च संज्ञायाम् । (६-१-१५७) कृतसुकानि निपात्यन्ते । पारस्करः, किष्किन्धा, तस्करः, बृहस्पतिः,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४५५&oldid=348052" इत्यस्माद् प्रतिप्राप्तम्