एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० लघुपाणिनीये [स्वर संधि - अथ संधिनिषेधः – योऽयं प्रकृतिभाव इति व्यपदिश्यते; संधौ ह्यकृते पदं प्रकृत्या (यथास्थितरूपेण) एवावतिष्ठते । । ५६ । प्लुतप्रगृह्या अचि नित्यम् (प्रकृत्या) । (६-१-१२५) प्लुताश्च प्रगृह्यसंज्ञाश्च अचि परे प्रकृत्या स्युः । संधिं न लभेर- न्नित्यर्थः । विकल्पानुवृत्तिनिवृत्त्यर्थं नित्यभिति। प्लुतस्तावद्दूरादा ह्वाना- दौ भवति । स लौकिकसंस्कृते नातीवोपयुज्यत इति तद्विधिर्नात्र व्या- ख्यायते । प्रगृह्यसंज्ञा परं विव्रियते - सा च प्रथमाध्यायप्रथमपादे विहिता ॥ - ५७ | ईदूदेद्विवचनं प्रगृह्यम् । (१-१-११) ईंदन्तम्, ऊदन्तम्, एदन्तं च द्विवचनं प्रगृह्यसंज्ञं स्यात् । अथोदाहरणम् – प्रथमं प्लुतस्य - एहि कृष्ण३ अन गौश्चरति । कृष्णात्रेति दीर्घौ न । अनन्तरं प्रगृह्यस्य - कवी एतौ – कव्येतौ इति यण् न । पटू इमौ—पट्टिमौ इति यण् न । द्वे अङ्गे – द्वेऽङ्गे इति पूर्वरूपं न । आसाते इमौ—आसातयिमौ इति अयादेशो न । ५८ । अदसो मात् । (१-१-१२) अदसशब्दस्य मकारात् परौ ईंदूतौ प्रगृह्ये स्तः । असंभवादेदित्यंशो न संबध्यते । अद्विवचनार्थम् अनीदूदेदन्तार्थं च वचनम् । अमू (पुंसि) आसाते । मुत्वस्यासिद्धत्वेनाप्राप्तावारम्भः । असिद्धत्वमुपरिष्टात् स्पष्टीभविष्यति । यथा- अमी ईशा. - अमीशा इति सवर्णदीर्घौ न । - ५९ । ओत् (निपातः) । (१-१-१५) ओदन्तो निपात: प्रगृह्यं स्यात् । यथा- अहो आश्चर्यअहवाश्चर्यमिति अवादेशो न। अथो आरभ्यते – अथवारभ्यत इति न । अन्यत्रापि प्रगृह्यसंज्ञोक्ता नातीवोपयुज्यते । प्रसङ्गवशात् प्रगृह्य- संज्ञाविध्यर्थं प्रथमाध्यायसूत्राणि व्याख्याय प्रकृतः षष्ठाध्यायप्रथमपाद BGDE एवानुबध्यते - - -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४७&oldid=347413" इत्यस्माद् प्रतिप्राप्तम्