एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] शिक्षाकाण्डः । ५॥ भेदः । स्वर- सत्वषत्वे विसर्गस्य, मूर्धन्यो, णत्वकीर्तनम्, । श्चुत्वष्टुत्वे, पश्चमत्वं, वर्णद्वित्वं च, जचरौ ॥ ४ ॥ विन्दुत्वोः परसावर्ण्य, हो घोषः, शरछ इत्यमी ।। हल्विकारास्त्रिपायुक्ता असिद्धाः स्युरनुक्रमात् ॥ ५ ॥ स्वरव्यञ्जनसंध्योः सिद्धासिद्धत्वकृतादन्योऽप्यस्ति संधिमेव पाणिनिः संधित्वेन गणयति, यतः स एव 'संहितायाम् (६-१-७२) इत्यधिकृत्य विहितः । व्यञ्जनसंधिस्तु 'पदस्य' (८-१-१६) इत्यधिकृत्यारब्धो झलि परेऽपि क्वचित् क्वचिद्विधीयत इत्येव । अतः पदान्ते झलि परे वा विहितानि, वर्णानां योगमात्रे चोदितानि च कार्या- ण्यस्मिन् प्रकरणे यावच्छक्यं सूत्रानुक्रमेण कथ्यन्ते ॥ , FEB PIES www. ६२ । चोः कु: (झलि पदान्ते च) । (८-२-३०) वाच् प्राच् स्रज् भिषज् = भिषग् । - चवर्गस्य कवर्ग आदेश: स्यात् झलि परे पदान्ते च । यथा - झलि परे पदान्ते वाक् ।

प्राक् ।

= स्रग् । = १. - Far सिच् + तं = सिक्तम् । FOR JOSE मुच् + तं = मुक्तम् । ३३ = भज् + तं भक्तम् । तिज् + तं = तिक्तम् । १. अष्टमे २-३-४ पादेषु व्यञ्जनकार्याणि प्लुतश्च विधीयन्ते । तत्र २-यपादे पदान्ते, झलि परे च कार्याणि प्लुतश्च संहिताधिकारं विनैवानुशिष्यन्ते । ३ - ४ पादयोः 'तयोर्ध्वावचि संहितायाम्' इत्यधिकरोत्याचार्यः । ततश्च द्वितीयपादकार्याणां नित्यत्वम्, अन्तिमपादयोस्तु कार्याणां संहिताविवक्षाविवक्षाभ्यामैच्छिकत्वं च फलति । त्रिपादीप्रथमपादविहितानां हल्कार्याणां निर्णये, पदान्ते झलि च हलामल्पानामेव संभव इति ज्ञानं सुलभम् । तेन च संधिकार्याणि मुष्टिग्राह्याणि भवन्ति । यथा— पदान्ते – (१) हस्य ढः, (२) मध्यमेषु यवलान्ता अप्रसिद्धाः, (३) चोः कुः, (४) झयां षस्य च जश, (५) शस्य षः, (६) सस्य रुः । एवं व्यपकलिते र, ग, ङ, ङ, ण, द, न, ब, म इति नवेव । एवमन्यदप्यूह्यम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/५०&oldid=347416" इत्यस्माद् प्रतिप्राप्तम्