एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ लघुपाणिनीये [हल्-संधि शहसानां तत्तद्विशेषविधानात् षकार एक एवावशिष्यते । तस्य 'ऋटु- अरषाणां मूर्धा' इति मूर्धस्थानसाम्यात् टवर्गमृदुः डकार आदेशो भवति । यथा- वाक् = वाग् गोधुघ् = गोधुग् चित् चिद् । ककुभ् = ककुब् । द्विड् । द्विष् = मित्रध्रुद् = मित्रध्रुड् = अवसाने झलां विकल्पेन च (मृदूनां खरादेशं) वक्ष्यति ; अतः गोधुक्, ककुप् इत्यादिरूपाण्यपि भवन्ति । वाक्यमध्ये तु गोधु- गयम्, ककुब्विभाग इत्यादि जश्त्वमेव || PE TELEX ७० । ससजुषो रुः । (८-२-६६) F पदान्तस्य सकारस्य सजुष् इति शब्दस्य च रुः स्यात् । 'अलो- ऽन्त्य'- परिभाषया (३१) सजुष्शब्दान्त्यवर्णस्य षकारस्यादेशः । अयं शब्दः छन्दस्येव बहुशो दृश्यते । 'रु' इत्यादेशे उकारस्यानुनासिकत्व- प्रतिज्ञानादित्संज्ञायां लोपे ‘र्' इत्येवादेशस्वरूपम् । रेफस्यास्य पुनरपि उत्वयत्वयोरादेशान्तरयोर्विधानार्थ उकारानुबन्धयोजनम् । उत्वयत्वे सकारादेशभूतस्य रेफस्यैव विवक्षिते; तथा च नैसर्गिकरेफात् सकारा- देशरेफस्य भेदप्रदर्शनाय पूर्वो र इति, उत्तरो रुः इति च व्यपदिश्यते । यथा- = 1 ज्योतिस् + इदं ज्योतिरिदम् । धनुस् + आनय = धनुरानय । अवसाने रेफस्य विसर्गविधानात् (८२) ज्योतिः, धनुः, दो:, उच्चैः इति रूपाणि स्युः । रोर्निमित्तभेदेन यकार उकारश्चादेशौ वक्ष्येते || दोर्दण्डः । दोस् + दण्डः = उच्चैस् + वृक्षः = उच्चैर्वृक्षः । ७१ । अहन् । (८-२-६८) ७२ । रोऽसुपि । (८-२-६९) 6 'अहन्' इत्यस्य पदस्य रुः स्यात् ; सुप्प्रत्ययभिन्ने तु परे रोरपवादो रः । तथा च 'अहन्' इति पदस्य सुपि परे रुः ; अन्यत्र र इति फलितम् । सुप् इति पूरे शहर

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/५३&oldid=347419" इत्यस्माद् प्रतिप्राप्तम्