एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ लघुपाणिनीये er sy pr ७४ । मतुवसो रु संबुद्धौ छन्दसि । (८-३-१) अथ रुणः संनियोगेन (साहचर्येण) विशेषकार्यमुपदिशति । ७५ । अत्रानुनासिकः पूर्वस्य तु वा । (८-३-२) तुकारो भिन्नक्रमः अनुनासिकस्तु वा इति । रु नित्यं भवति; अनुनासिकस्तु पूर्वस्य वैकल्पिक इति तुकारो भेदं द्योतयति । रुप्रकरणेऽत्र रुणः पूर्वस्य स्वरस्य विकल्पेनानुनासिकत्वं कार्यमित्यर्थः । अनुनासिको वेत्युक्तम् ; तदभावे किं कर्तव्य- मित्याह- ७६ । अनुनासिकात् परोऽनुस्वारः । (८-३-४)

अनुनासिकात् इत्यस्य अनुनासिकस्थानिन इत्यर्थः । अनुनासिकस्थानिनः स्वरात् परमनुस्वारासज्जनं कार्यम् । अनुनासिकः पूर्वस्वरस्योक्तः अतो रुणः पूर्वस्य स्वरस्य पश्चादनुनासिकत्वाभावे अनुस्वारो योजनीय इति फलितम् । एवं च रुणि कृते पूर्वस्वरोऽनुनासिकोऽनुस्वारपरो वा कार्यः । द्वित्रा एवान भाषोपयुक्ता विधयः; तत्राप्येक एव सामान्यविधिः ॥ ७७ । पुमः खय्यम्परं । (८-३-६) , अम् परो यस्मात् इति बहुव्रीहिः; अम् खय् इत्युभौ प्रत्याहारौ । पदान्ते पुंशब्दस्य रु अन्तादेशः खयि परे; खयश्च अम् परोऽस्ति चेत् । 'समः स् सुटि' (८-३-५) इति पूर्वसूत्रात् (प्रश्लिष्टं) सकारमनुवर्त्य रुणः सकारादेशोऽप्यनेन विधी- यते । रुश्रवणं तु ‘हरिवो मेदिनं त्वा' इत्यादिषु च्छान्दसप्रयोगेष्वेव । अथो- दाहरणम्- - पुम् + कोकिल: = पुर् कोकिलः = पुस्कोकिल: ; (अनुनासिकानुस्वारविकल्पात्) = = पुम् + खरः = पुँस्खरः, पुंस्वरः । पुम् + पुत्रः = पुँस्पुत्रः, पुंम्पुत्रः । पुँस्कोकिलः, पुंस्कोकिलः । [हल्-संधि पुँस्फलं, पुंस्फलम् । - पुम् + फलं पुम् + चली = पुँसूचली (= पुँश्चली), पुंसूचली (= पुंश्चली) । - • प्रत्युदाहरणम् – खय् परो न चेत्-पुं + गवः (खयोऽम् न परश्चेत् ) पुं + प्रतिभा = पुङ्गवः । पुंप्रतिभा । संयोगान्तलोपाभावो रुविधानद्वारा विधीयते इति फलति पुंशब्दः । संयोगान्तलोपः २५९ तमसूत्रेण विधीयते ॥ । पुंस् इति सान्तो हि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/५५&oldid=347421" इत्यस्माद् प्रतिप्राप्तम्