एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] शिक्षाकाण्डः । ८३ । रोः सुपि । (८-३-१६) सुप् सप्तमीबहुवचनप्रत्ययः । तस्मिन् परे रोरेव विसर्गो न तु नैसर्गिकरेफस्य । 'खरव...' (८२) इति रेफसामान्यस्य प्राप्तो विसर्ग एव नियम्यते । यथा- WAND - = पयस् + सु = पयर् सु = पयःसु । विसर्गस्य पुनर्विकल्पेन सत्वं विधास्यते; अत: ‘पयस्सु दोस्_ + सु = दोर् सु - दोःसु । - 'दोस्सु' इत्यपि रूपं साधु । प्रत्युदाहरणम्- (नैसर्गिकरेफस्य तु) गीर् + सु = गीर्षु (= गीर्षु) । ८४ । भोभगोअघोअपूर्वस्य योऽशि । (८-३-१७) आ भोस्, भगोस्, अघोस् इति सकारान्ता निपाता: ; अ: = अवर्णः । एतत्पूर्वकस्य (एभ्यः परस्य) रोर्यकार आदेश: स्यात् अशि परे । अत्र 'अ-पूर्वस्य' इत्यंश: सामान्यविधिः; भोस्प्रभृतीनां विशेषविधिरिति विषयविवेको बोद्धव्यः । यथा— यशस् + उज्ज्वलम् = (७०) यशर् + उज्ज्वलम् = यशय् उज्ज्वलम् । = वेधास् + इह = वेधार् + इह = वेधाय् इह । वेधास् + वन्द्यः वेधार् + वन्द्यः वेधाय् वन्द्यः । भोय् एहि । भोस् + एहि भोर् + एहि भोस् + गच्छ भोर् + गच्छ भोय् गच्छ । = "> = = यत्वयकारस्योच्चारणे पक्षभेदाः सन्ति; तानाह-

- , ८५ । व्योर्लघुप्रयत्नतरः शाकटायनस्य । (८-३-१८) १. सुप् इति सकारस्य खरि अन्तर्भूतत्वात् 'खरवसानयोः' इत्येव सिद्धे नवं विधि- मारभमाण आचार्यः पिष्टमेव पिनष्टि । तच्च तस्मिन् न संभाव्यते । अतः कल्प्यते नियमार्थो विधिरिति । नियमस्वरूपं च सुप्सकारे भवति चेत् रोरेवेति । एवमन्यत्र पि , सिद्धे पुनरारम्भो निथुमे पर्यवस्यतीति बोध्यम् । मात्रालाभव्यसनात् ‘रोरेव सृपि’ इति न सूत्रितमाचार्येण ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/६०&oldid=347426" इत्यस्माद् प्रतिप्राप्तम्