एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [हल्-संधि उत्वस्य सिद्धत्वात् गुणपूर्वरूपे भवतः । असिद्धकाण्डगतस्य रोर्वचन- सामर्थ्यात् उत्वविधिमात्रे सिद्धत्वम् । प्रत्युदाहरणम्- = (अतः परो न चेत् ) वेधास् + असौ = वेधा असौ (अत् परो न चेत्) यशस् + आर्जय = यश आर्जय । (रेफान्तं चेत् ) प्रातर् + अत्र = प्रातरत्र । 617 ९० । हशि च । (६-१-११४) हशि परे च अतः परस्य रोः उः । यथा- - - मनस् + हरम् - मनर् + हरम् = मन + उ हरम् = मनोहरम् । - देवस् + वन्द्यः = देवर् + वन्द्यः= देब + उ वन्द्यः= देवो वन्द्यः । देवस् + नम्यः = देवर् + नभ्यः= देव + उ नभ्यः = - देवो नम्यः । ऽनुस्वारः । यथा - PART fezipis उत्वविधिरयम् ' अपूर्वस्य योऽशि' (८४) इति यत्वस्यापवादः । तेन आत: परस्यैव रोः समग्रे अशि परे यत्वम् ; अतः परस्य तु अति हाश च परे उत्वम्, आति इचि चैव परे यत्वमिति विषयविवेकः । [ अश्-(अत् + हश्) = आत् + इच्] अथ प्रकृतोऽष्टमाध्याय एव व्याख्यायते- ९१ । मोऽनुस्वारः । (८-३-२३) पूर्वसूत्रात् 'हलि' इत्यनुवर्तते । पदान्तस्य मकारख हलि परे- इदम् + वनम् • इदं वनम् । सायम् + संध्या = सायं संध्या । प्रत्यु० – (अचि तु परं) इदम् + अरण्यम् = इदमरण्यम् । किम् + हसति = किं हसति । - सम् + रक्तम् = संरक्तम् । १. अस्यापवादः – १ । मो राजि समः कौ । (८-३-२५) । विप्रत्ययान्तँ राजतौ परे ‘सम्' इत्युपसर्गमकारस्य म एव न त्वनुस्वारः । 'क्कि' इति सर्वलोपी प्रत्ययः । तेन 'राज्' इस्येव विप्रत्ययान्तो राज्धातुः । उदा० सम् + राज् = सम्राज् = (६७) 'सम्राड्' | एकशब्दनिष्पत्त्यर्थकमिदं सूत्रमिति ग्रन्थशरीरे अनन्तराञ्च 'हे मपरे वा' इत्यादयो विधयो लौकिकसंस्कृतेऽनुपयुक्ता नोपात्तम् । इत्युपेक्षिताः ।

अन्य शरीर

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/६३&oldid=347429" इत्यस्माद् प्रतिप्राप्तम्