एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ लघुपाणिनी [हल्-संधि विसर्गस्य षसावादेशौ येष्वपेक्ष्येते ते शब्दाः कस्कादिषु पठिता बोध्याः । ईदृशो गण ‘आकृतिगण' इत्युच्यते । इत ऊर्ध्वं सूत्रक्रमे मूर्धन्यादेशविधिः 'विनामबि- धिश्च वर्तते । प्रकरणद्वयं तत्, तयोः प्रसङ्गे व्याख्यास्यामः । गड १०२ । स्तोः चुना चुः । (८-४-४०) सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गावादेशौ स्या- ताम् । अत्रोत्तरसूत्रे च स्थान्यादेशयोरेव यथासंख्यं विवक्षितम्, न तु योगस्य । तेन आदेशाः – सकारस्य शकारः, तकारस्य चकारः, दुका- रस्य जकारः, नकारस्य व्यकारः इत्याद्येव । योगस्तु यथासम्भवं सर्वोऽपि । - यथा- - पयस् + शीतं तपस् + चिनोति सत् + चित् परिषद् + जनः - ताम् । यथा - - = = = पयश्शीतम् । तपश्चिनोति । सच्चित् । परिषज्जनः । सकारतवर्गयोः १०३ । टुना टुः । (८-४-४१) राजन् + जय वृक्षस् + छिद्यते तद् + ज्ञानं यज् + नः = ....... = राजञ्जय | वृक्षश्छिद्यते । तज्ज्ञानम् ।

यज्ञः ।

पिष् - = महस् + षण्डः = महष्षण्डः । महान् + ढौकते = महाणूढौकते । रामस् + टीकते रामष्टीकते । उत् + टङ्कनं | + तं पिष्टम् । उदृङ्कनम् । तद् + डिण्डिमं= तड्डण्डिमम् । = षकारटवर्गाभ्यां योगे षकारटवर्गावदेशौ स्या- - अत्र श्चुत्वष्टुत्वयोः 'पयश्शीतं' 'महष्षण्डं' इत्यादिषु पदान्त- सकारोदाहरणेषु प्रथमं 'ससजुषो रु:' (७०) इति रुत्वं, ततो रोः ‘खरवसानयो.... .' (८२) इति विसर्गः, अनन्तरं विसर्गस्य 'वि- सर्जनीयस्य सः (९४) इति पुनस्सकारः । तस्यैव श्चुत्वष्टुत्वे भवत इति प्रक्रियाक्रमो ज्ञेयः । तत्तन्न्यायसञ्चारणार्थकश्चायमायासः । मिहत: १. विनामो नाम नकारस्य णकारादेशः, णत्वमिति पाणिनीयैर्व्यवहृतः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/६७&oldid=347433" इत्यस्माद् प्रतिप्राप्तम्