एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [हल्-संधि स्वस्वपञ्चम एवानुनासिक: । यवलानां स्वं स्वम् अनुनासिकरूपम् । रेफस्य परमनुनासिकादेशो न भवत्येव । यथा- - वाग् + माधुर्य = वाड्माधुर्ये, वाग्माधुर्यम् । चित् + मयं = चिन्मयम् | | अप् + मयं = अम्मयम् । ॥ * ॥ प्रत्यये भाषायां नित्यम् ॥ वैकल्पिकोऽयमनुनासिकादेशः प्रत्ययस्थेऽनुनासिके परे भाषायां नित्यं भवति । अत एव 'चिन्मयम्' 'अम्मयम्' इत्युदाहरणयोर्विकल्पो न दर्शितः । हलादौ विभक्तिप्रत्यये तद्धिते च परे प्रकृतेरपि पदसंज्ञास्तीति पूर्वमेवोक्तम्, अतोऽस्त्येव पदान्तत्वमपि । १०८ । अचो रहाभ्यां वें । (८-४-४६) यर इत्यनुवर्तते; अच: परौ यो रेफहकारौ ताभ्यां परस्य यरो द्वे स्याताम् । द्वे द्विरुच्चारणं (द्वित्वं) । यथा- अर्कः = अर्कः, ब्रह्मा = - ब्रह्म्मा । १०९ । अनचि च । (८-४-४७) अचः परस्य यरो द्वे स्याताम्, न त्वचि । यथा- पित्रुक्तः = पित्त्रुतः = । गम्लाह = गम्म्लाह । सुध्युक्तः = सुध्ध्युक्तः = (सुद्ध्युक्तः) । मध्वरिः = मध्ध्वरिः = (मद्ध्वरिः)। = — भस्स्म, पक्क्ष्म, अस्त्रं, पक्कं, उष्ष्णं, निष्ठा, निष्ष्ठ्यूतं, लक्क्ष्म्या, पुरन्न्ध्रथा इत्यादि । सूत्रेणानेन अच: परस्य यरोऽचपरत्वाभावे द्वित्वं विधीयते । एवं च अवाक्यादौ संयोगे प्रथमवर्णस्य द्वित्वमिति फलितम् । संयोगः पुनर्यदि रेफादिईकारादिव भवति तर्हि द्वितीयवर्णस्य द्वित्वमिति पूर्व- सूत्रेण विहितम् । एवं सर्वथापि संयोगेषु वर्णद्वित्वमवश्यं कार्यम् । १. वाक्ययोरपि संहितायां पूर्ववाक्यान्त्यस्वरमादाय उत्तरवाक्याद्यसंयोगस्य द्वित्वं भवत्येव । 'शोण + हृदा 'दौ रेफस्य हकारात् परस्य, 'वर्षति' अर्शसौ इत्यादौ रेफात् शषयोश्च द्वित्वं सर्वथापि न भवति च । ती त्या

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/६९&oldid=347435" इत्यस्माद् प्रतिप्राप्तम्