एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [हल्-संधि अब प्रकरणपूर्त्यर्थे तुक्संधिरित्युक्तो भागो वक्तव्योऽस्ति, यमेव पाणिनि: ‘संहितायाम्' (६-१-७२) इत्यधिकृत्य 'छे च' (ह्रस्वस्य तुक्) (६-१-७३), 'आङ्याङोश्च' (६-१-७४), 'दीर्घात्' (६-१-७५), ‘पदा- न्ताद्वा' (६-१-७६) इति चतुर्भिः सूत्रैः संहिताकार्येषु प्रथमत्वेन नि- र्दिशति । अवाक्यादौ स्थितस्य छकारस्य द्वित्वं कार्यमिति प्रकरणस्याय फलितोऽर्थः । छकारस्य द्वित्वे कृते 'खरि च' (११२) इति पूर्वस्य चका- रो भवति । यथा- परि + छिन्नः ५४ - = परिच्छिन्नः । आ + छादनं = आच्छादनम् । विच्छेदः । तरु + छाया = तरुच्छाया | वि + छेदः = प्रत्यु० – वाक्यादौ तु –‘छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैः'–[मेघ ] एवं च वाक्यादावेव केवलश्छकारो भवति । अन्यत्र सर्वत्रापि द्विरुक्त इति पर्यवसितम् ॥ हल्संधिप्रकरणेऽत्र बहवो विधय उक्ताः । तेषां हृदयोपस्थिति- करणे लाघवाय तत्र मुख्या: सिंहावलोकितकेन कारिकाभिः संगृह्यन्ते— अन्ते झलि च चो: कुत्वं, हस्य ढ, - श्छशयोश्च षः । झलां जशोऽन्ते झशि च, खर्येषां सर्वदा चरः, ॥ १ ॥ श्चुना चुः, ष्टुना टुश्च द्वयमप्यन्तमध्ययोः । झयि पूर्वे तस्य घोषो, झयः शोऽमि च्छतां व्रजेत् ॥ २ ॥ स्तो:

तोर्लि लो, हलि मो बिन्दुः, पञ्चमे पञ्चमो यरः, । झल्यनन्त्ये नमोर्बिन्दु, बिन्दोर्यय्यनुनासिकः ॥ ३ ॥ १. अत्र पाणिनेः प्रक्रिया - हस्वस्य छे परे तुगागमः । कित्त्वादयमन्त्यावयवः तथा च–परि + छिन्नः = परित् छिन्नः परिच्छिन्नः (१०२) । दीर्घस्यापि तुकं विधाय पदान्तदीर्घस्य तुग्विकल्प्यते । वल्ली + छाया = वल्लीच्छाया इति । किंतु पदान्तदीर्घेऽपि तुनित्य एवोपयुज्यत इति संप्रदायः लाघवार्थमंत्र फलितार्थ एव ग्रन्थे निर्दिष्टः । वल्लीछाया = 1

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/७३&oldid=347439" इत्यस्माद् प्रतिप्राप्तम्