एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ परिनिष्ठाकाण्डः ॥ परिनिष्ठाकाण्डेऽत्र पदानां रूपनिष्पत्तिः कथ्यते । तत्र सुप्तिङ- न्तयोः प्रथमं सुबन्तस्य प्रक्रिया । प्रातिपदिकेभ्यः किल सुप उत्पद्यन्ते; प्रातिपदिकानां च लिङ्गभेदोऽस्तीति लिङ्गव्यवस्था क्रियते । लिङ्गप्रकरणम् । पुमान्, स्त्री, नपुंसकमिति लिङ्गं त्रिविधम् । लोके प्राणिनां स्त्रीपुरुषविभागः प्रसिद्धः; तद्भेदहीना जडपदार्था नपुंसकानि । वाच्या- नां पदार्थानां स्त्रीपुन्नपुंसकभेद एव पदेष्वप्यारोप्यत इति देश्यभाषाणां संप्रदायः । संस्कृते तु कृत्रिमाप्यस्ति लिङ्गव्यवस्था । शिला, नगरी, भाषा, सृष्टिरित्यादयो जडा अपि स्त्रीलिङ्गाः; तथा आश्रमः, आहारः, उपल इत्यादयः पुल्लिङ्गाः | भार्यावाचकोऽपि दारशब्दः पुल्लिङ्गः, कलत्रं नपुंसकम् इत्यादि । किं च विशेष्यगता लिङ्गवचनविभक्तयो विशेषणे- ऽप्यारोप्यन्ते । यथा - निपुणः पुमान्; निपुणा स्त्री; निपुणाः पुमांसः; निपुणस्य पुंसः; निपुणाः स्त्रियः; निपुणायाः स्त्रियाः; लिङ्गम् । निपुणं सैन्यं - निपुणानि सैन्यानि— वचनम् । निपुणस्य सैन्यस्य — विभक्तिः । नाम्नां लिङ्गव्यवस्था नामलिङ्गानुशासनेभ्यो ज्ञातव्या । भूमि-विद्युद्- रात्रि-लता-सरितां पर्यायाः स्त्रियः; पर्वत-वृक्ष-समुद्राणां पर्यायाः पुमांसः, मुख-जल-कमलपर्याया नपुंसका: । घञ्प्रत्ययान्ता: पुल्लिङ्गा: ; क्तिन्प्रत्य- यान्ताः स्त्रीलिङ्गाः; ल्युट्प्रत्ययान्ता नपुंसकलिङ्गा इत्यादयः काञ्चन इत्यादयः का

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/८१&oldid=347447" इत्यस्माद् प्रतिप्राप्तम्