एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनी मध्ये उपेक्षितानि सूत्राणि टिप्पणे दृश्यन्ताम् । १. (A) क्रीतात्करणपूर्वात् । (४-१-५०) करणतृतीयान्तपूर्वपदात् ७० यथा –——यवैः क्रीयते = यवक्रीती । वस्त्रेण क्रीयते क्रीतोत्तरपदात् समासात् स्त्रियां ङीष् स्यात् । = वस्त्रक्रीती | (B) क्तादल्पाख्यायाम् । (४-१-५१) करणपूर्वपदात् क्तप्रत्ययान्तोत्तरपदात् ङीष् अल्पत्वे द्योत्ये । यथा— अभ्रेण ईषत् लिप्यंत—अभ्रलिप्ती द्यौः | सूपेन ईषत् लिप्यते-सूपालप्ती पात्री । "" प्रत्यु० – ('अल्पाख्यायां' किम् ? ) चन्दनलिप्ता युवतिः । (C) बहुवीहेचान्तोदात्तात् । (४-१-५२) क्तादित्येव । यथा— केशा लूना यस्याः सा – केशलूनी । - ऊरू भिन्नौ - ऊरुभिन्नी । पाणिर्गृहीतः —पाणिगृहीती । (भार्येत्यर्थ एव ) "" ॥ * ॥ अ-बहु ·नञ्-सु काल सुखादिपूर्वादिति वक्तव्यम् ॥ बहुकृता, अकृता, सुदृष्टा, वर्षजाता, मासजाता इत्यादि । " [स्त्रीप्रत्यय (D) अस्वाङ्गपूर्वपदाद्वा । (४-१-५३) स्वाङ्गं निर्वक्ष्यते । तद्भिन्नपूर्वपदात् क्तान्तोत्तरपदावा ङीष् इत्यर्थः । यथा— पलाण्डुर्भक्षितो यया सा = पलाण्डुभक्षिती, —ता वा । सुरा पीता यया सा = सुरापीती, —ता वा । = (E) सहनविद्यमानपूर्वाश्च । (४-१-५७) सह (=स) नञ् (= अ), विद्यामान–एतत्पूर्वपदात् स्वाङ्गादुक्तो ङीष् - न स्यात् । यथा – सकेशा; अकेशा; विद्यमानकेशा । — (F) सख्यशिश्वीति भाषायाम् । (४-१-६२) सखि – सखी; अशिशु – अशिश्वी । - - (G) इतो मनुष्यजातेः । (४-१६५) मनुष्यजातिवाचिन इदन्तात् स्त्रियां ङीष् स्यात् । यथा- कुन्ति – कुन्ती; अवन्ति —– अवन्ती; दाक्षि – दाक्षी; - थाSGDF प्लाक्षि – लाक्षी |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/८९&oldid=347455" इत्यस्माद् प्रतिप्राप्तम्