एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ लघुपाणिनीये [स्त्रीप्रत्यय १५८ । नासिकोदरोष्ठजङ्घान्तकर्णशृङ्गाच्च । (४-१-५५) आद्ययोर्बह्नत्वादन्येषां संयोगोपधत्वाच्चाप्राप्ते विधिरयम् । यथा- तुङ्गनासिकी, — का ; कृशोदरी, - - रा; बिम्बोष्ठी, ~~ ष्ठा इत्यादि । - , अङ्गगात्रकण्ठेभ्यो वा वक्तव्यम् । (वृत्तिदृष्टं वार्त्तिकमिदम् ) यथा— स्वङ्गी, –स्वङ्गा; सुगात्री, – ता; कम्बुकण्ठी, –ण्ठा । - - - १५९ । न क्रोडादिबद्द्वचः । (४-१-५६) - क्रोडाद्यन्तात् बह्वजन्ताच्च नायं विकल्पः खात् । यथा - सुक्रोडा, सुशफा, सुनखा इत्यादि । पृथुजघना, महाललाटा । १६० । जातेरस्त्रीविषयादयोपधात् । (४-१-६३) अनियतस्त्रीलिङ्गात्, अयकारोपधात्, जातिवाचिनोऽदन्तात् स्त्रियां ङीष् स्यात् । जातिर्नाम- “(१) आकृतिग्रहणा जातिः अनुगतेनावयवसंस्थानेन ज्ञातुं शक्येत्यर्थः । तर्कशास्त्रप्रसिद्धा जातिरियम् ॥ (२) लिङ्गानां च न सर्वभा सकृदाख्यातनिर्ग्राह्या असर्वलिङ्गत्वे सति एकखां व्यक्तौ कथनात् व्यक्त्यन्तरे कथनं विनापि सुग्रहा जाति: इति द्वितीयं लक्षणम् । स्मृतिप्रसिद्धा जातिरियम् ॥ (३) गोत्रं च चरणैः सह " - गोत्र -(अपत्य) - प्रत्ययान्ताश्चरणप्रत्ययान्ताश्च (एते तद्धितेषु वक्ष्यन्ते) जातितुल्याः स्युरित्यतिदेशः । यथा - (१) कुक्कुटी, सूकरी, शुकी, मृगी । | (२) ब्राह्मणी, वृषली । (३) नाडायनी, कठी, बहुची । प्रत्यु० – ('जातेः' किम ?) मुण्डा, पलिता । ('अस्त्रीविषयात्' किम् ? ) वलाका, मक्षिका । ('अयोपधात्' किम् ?) क्षत्रिया, वैश्या । -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/९१&oldid=347457" इत्यस्माद् प्रतिप्राप्तम्