एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] परिनिष्ठाकाण्ड: । ॥ * ॥ योपधप्रतिषेधे हयगवयमुकय मनुष्यमत्स्यानामप्रतिषेधः ॥ यथा—हयी, गवयी, मनुषी, मत्सी इत्यादि । अन्त्ययोः 'सूर्यतिष्यागस्त्य- मनुष्यमत्स्यानां य उपधायाः' (६-४-१४९) इति यलोपः । अथ स्त्रीप्रत्यययोगे कार्याः प्रक्रिया: कथ्यन्ते — १६१ । प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः । (७-६-४४) प्रत्ययस्थात् ककारात् पूर्वस्य अकारस्य इकारादेशः स्यात् आपि परे, स चेदाप् सुपः परो न भवति । आप: सुपः परत्वं समासे संभवति । यथा- - मुण्डशब्दात् कप्रत्यये तद्धिते 'मुण्डक' इति प्रातिपदिकम् ; 'दुष'-धातो: ‘अक' इति कृत्प्रत्यये ‘दूषक' इति प्रातिपदिकम्; आभ्याम् अदन्तत्वात् स्त्रियां टाप्- मुण्डक + आ ; दूषक + आ इति स्थिते कात्पूर्वस्यात इत्–मुण्डिका, दूषिका । एवं चूर्णक–चूर्णिका; मोदक - मोदिका इत्यादि । प्रत्यु० – ('अतः' किं? ) नौका, शिशुका । ('प्रत्ययस्थात्' किं ?) चटका । ('असुप:' किं ?) बहुपरिव्राजका नगरी । अत्र बहवः परिव्राजका यस्यामिति बहु- व्रीहौ परिव्राजकशब्दात् प्रथमाबहुवचनं समासे लुप्तम् । १६२ । उदीचामातः स्थाने यकपूर्वायाः । (७-३-४६) यकपूर्वाया इति आतः स्त्रीलिङ्गविशेषणेन आकार: स्त्रीप्रत्यय- रूपो ग्राह्यः । यकारककाराभ्यां परस्य स्त्रीप्रत्ययाकारस्य स्थाने ह्रस्वा- देशेन योऽकारः तस्य कात्पूर्वय इत्वम् उदीचामाचार्याणां मते । यथा— क्षत्रियाशब्दात् चटकाशब्दाच्च अज्ञाताद्यर्थे कप्रत्ययेन तद्धितेन 'क्षत्रियाक' ‘चटकाक' इति प्रातिपदिके; अत्र तद्धितकप्रत्यये परतः पूर्वस्याण्प्रत्याहारस्य ह्रस्व- विधायकेन 'केऽणः' (७-४-१३) इति सूत्रेण 'क्षत्रियक' 'चटकक' इति रूपे निष्पद्येते । आभ्यां स्त्रीप्रत्यये टापि - क्षत्रियिका, क्षत्रियका; चटकिका, चटकका इति सिध्यति । SGDF १६३ । अभाषितपुंस्काच्च । (७-३-४८)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/९२&oldid=347458" इत्यस्माद् प्रतिप्राप्तम्