आख्यातानि ।
द्वितीये राशौ पूर्ववदेव अडागभविरहेण च्छिन्नपुच्छा लङो दृश्यन्ते ।
यद्यप्यत्र शपस्तत्स्थानभाजोऽन्यस्य वा अकारस्याभावात् 'दधर्षीत्'
इत्यादावीडागमदर्शनाच्च यङ्लुक्-कल्पनं सुकरतरं, तथापि अभ्यासकार्या-
णाम प्रवृत्तिस्तदवस्थैव । 'मामहन्त' 'वावृधन्त' इत्यादिषु द्वित्रेषूदाहरणेष्व-
भ्यासदीर्घो दृश्यत इति चेत् आत्मनेपदस्योपपत्तिर्नास्तीत्यादीन्यनर्थान्त
राण्यपि जाग्रति ।
तृतीये याड्दर्शनाल्लिङ, चतुर्थे तु-हि-तनप -थनादिभिर्लोटं च
प्रत्यभिजानीमः । अनयोरपि विकरणं न दृश्यते, द्वित्वं च साधनीयं
वर्तते । अन्त्ये पञ्चमे पूर्णानि सन्ति लुङो विकरणरहितस्य रूपाणि ।
द्वित्वमेकं विलक्षणमप्रामाणिकं च । किञ्चात्र 'अपेचिरन्' इत्यादौ एत्वाभ्या-
सलोपयो', 'अचक्रिरन्' इत्यादौ इरे-प्रत्ययांशस्य च दर्शनात् लङ्प्रत्यय-
ग्रहणमात्रेण विकृतानि लिडूपाणीव प्रतिभासन्ते । अभ्यासस्य लिट्साम्यं
पञ्चस्वप्युदाहरणराशिषु स्पष्टम् । अपिनामैतानि यथाशङ्कितम्
‘अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम्',
वस्तुत एव लिटोऽङ्गे विन्यस्तेन लेट-लङ–लिङ-लोटां प्रत्ययजालेन
निष्पादितानि स्युः । तथाचेदेकपदे विनश्यति सर्वोऽपि प्रक्रियोपपादन-
क्लेशः । इह किल विकरणोपस्कृतं लटोऽङ्गमेव लङ्-लिङ्-लोट्स्वपि
दृश्यते । तथा विकरणस्थानीयेन द्वित्वेनोपस्कृताल्लिटोऽप्यङ्गाल्लुङादीनामु-
त्पत्तिस्तुल्यन्यायबलात् सङ्गच्छत एव । 'भव' इति लटोऽङ्गे अडागमं
पुरोधाय इलोपादिभिर्विकृतानां डिल्लकारप्रत्ययानां योगे लङत्पद्यते; तुता-.
मन्तुप्रभृतीनां योगे लोट्; याद्यातांयुस्प्रभृतीनां प्रकृते ‘अतो येयः' इति
विकृतानां योगे लिङ् च । एवमेव जगम् इति लिटोऽङ्गं लङ्प्रत्ययानामा-
योजने तिप्सिपोर्हल्ङ्यादिलोपेन, 'मो नो धातोः' इति नादेशेन च 'जगन्'
इति संपद्यते । अडागमे च कृते 'अजगन्' इति । जगम्यात् जगम्यातां
जगम्युः इति लिङ् । मुमोक्तु मुमुक्तां मुमुचतु इति लोट् । लेटोऽडाटोर्भू-
यसा गुणप्रतिषेधादिकार्यानिमित्त कत्वदर्शनात्तयोर्व्यवस्थित विभाषया पित्त्व-
पृष्ठम्:Laghu paniniyam vol2.djvu/१०६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति