आख्यातानि ।
१०१
लङ् तावदुक्तरीत्या
लट्-लिट्-लुङामङ्गेभ्य उत्पद्यते; अडागम-
त्यागे च विधिनिमन्त्रणादीन् लिङर्थानाह । तथाचायं विपुच्छत्वे रूपेणा-
र्थेन च नैसर्गिकाल्लुङो भिद्येत इत्यायातम् । यद्येवं, तर्हि किमित्येनं
लङ्शब्देन व्यपदिशामः? अर्थे रूपे च भिन्नोऽयमपूर्वः किल लकारो
भवितुमर्हति । एकादशस्यास्य लकारस्य सुमुहूर्तेऽद्य लेड् इति नाम करि-
ष्यामः । अयं हि लिङ्वदडागमहीनो ङिल्लकारकार्याणि सर्वाणि लभते ।
लेडिव लेङपि छन्दोमात्रगोचरः | लेङः स्वीकारेणास्तमिता जुगुप्सिता
पुच्छच्छेदकथेति निर्वृताः स्मः । कुतस्तर्हि पाणिनिरेनमुपेक्षितवान् ?
नूनमयं विकल्पजालजटिले नानारूपमालिनि बहुलमहाग्राहग्रासविकृते
लेटि निलीनो महर्षिणा पृथक्तेन न प्रत्यभिज्ञातः स्यात् । लेट्प्रक्रियोपसं-
हारो दृश्यताम् ।
अथ विमर्शेऽत्रानाघ्राताः सन्ति त्रयो लकाराः- ऌट् ऌङ् लुट्
चेति । एषां दशा कीदृशीति विचारः प्राप्तकालः । तेषु लुट् वेदेष्वदृष्ट-
त्वादवीचीनः, तृजन्तादस्तेरनुप्रयोगेण निष्पन्नत्वात् गौणश्चेति नात्र
गणनामर्हति । शेषयोः पूर्ववद्दृश्यते साङ्ख्यदर्शनप्रसिद्धः प्रकृतिविकृति-
भावः । लट्-लिट्-लुङ इव लट् प्रकृतिभूतो लकारः । तस्याङ्क|दुत्पन्नानि
लरूपाणि ऌङ् संपद्यते । अन्ये तु (लेट् लेड्-लोट्-लिङ:) ऌटोऽङ्गात्
संभावितोत्पत्तयोऽपि अद्य यावदुपलब्धेषु प्रयोगेषु न दृश्यन्ते । 'करिं-
प्याः' इत्येकं लेण्मध्यमैकवचनरूपं सविर्वा ऋग्वेदे दृष्टमित्येव । ‘करि-
ब्येत्' इति लिङि रूपं बालाः कदाचिदुद्भावयन्ति । वीरवैयाकरणाना-
मुपहास्योऽप्ययमविदग्घानां प्रयोगो भाषाया नैसर्गिक प्रवणतामनक्षरमुच्चै-
रुदघोषयति । तत्तदर्थभेदद्योतनाय हि शब्दे विकाराः क्रियन्ते । अत्र
भाविकालद्योतकः स्य-प्रत्ययः, आशङ्काद्यर्थबोधको यासुद् इत्युभयोर्मेळ-
नेन ‘करिष्येत्' इति रूपसिद्धौ किं विप्रतिपत्तिबजिम्? इयमेव हि यथा
प्रतिपादितं लकारेभ्यो लकारान्तराणामुत्पत्तेरुपपत्तिः । काम
प्रतिपादित एवं लकाराणां प्रकृतिविकृतिभावः; किन्तु मेदोऽयं रूप-
मात्रनिबन्धनः । अथार्थनिबन्धनः कहिक् प्रकृतिविकृतिभावेन दृष्टयोलका-
पृष्ठम्:Laghu paniniyam vol2.djvu/११२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति