एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातानि ।
१०७
'देवदत्त पुत्रस्ते भूयात्' इति वदन् देवदत्तस्य पुत्रे समुत्पन्ने यादृश आह्ला-
दस्तं मनसोल्लिख्य तस्मिन् प्रथममारोपयात, अनन्तरमेवाशीर्वाक्यं प्रयुङ्क्ते
इत्यस्ति भूतकालस्पर्श आशीःप्रयोगेषु । इयमेवोपपत्तिः ‘आशंसायां भूत-
वच्च' इति भविष्यति लुविधानस्य, 'अभिज्ञावचने लृट्' इति भूते लृड्डि-
धानस्य च । 'आशंसे व्याकरणमधीयीय' इति यो वदति स व्याकरणा-
ध्ययनजन्यं विज्ञानं मनोरथेनात्मन्यध्यस्यति । एवमेव 'अभिजानासि
कृष्ण गोकुले वत्स्यामः' इत्युक्तौ पूर्वानुभूतस्य स्मृत्योपस्थापितस्य गोकुल-
वासस्य भूयोऽपि निर्देशाभिलाषं पुरस्कृत्य भाविकालसम्बन्धः स्फुरति ।
आख्यातानां स्वस्वमाख्यातकमप्यस्तीति पूर्वमेवोक्तम् । तत्र
लट्-लिट्-लृटामाख्यातकानि तेषां लकाराणामादेशात्मकानि; अन्येषां तु
तत्स्थानभाञ्जीत्येव । लङ्-लुट्-लृङां परं स्थानीयमपि नास्त्याख्यातकम् ।
व्यातरेकस्यास्य कारणमिदनीं स्पष्टीभवति । प्रकृतिलकारेभ्य एवाख्यातका-
न्युत्पद्यन्ते । यथा अतिवर्तिन्यः प्रकाराश्च तथा आख्यातकमपि प्रकृतिल-
कारेभ्यो जायते । तत्र लट्-लिट्-लुटां दर्शितान्याख्यातकरूपाणि । लुडो
निष्पन्नानीह वेदेभ्य उद्धृत्य दर्यन्ते – दह-घक्षत् ; मदी- मन्दसान;
वृध् - वृधसान इत्यादि सिचि । भिद - भिदत्; स्था-स्थात् ; कृ-क्राण;
रुच रुचान इत्यादि लुकि । शास्- शिषत् ; सद सदत् ; शुच - शुचमान;
घृष - घृषमाण इत्याद्यङि | क्सचङोः परं नोपलयभ्यन्ते । छन्दस्यपि लुङ
आख्यात्तकानि लकारान्तरापेक्षया विरलानि । लोके तु लिटोsपि परस्मै-
पदाख्यातकान्येव दृश्यन्त इति प्रागेवोक्तम् । आख्यातकप्रत्ययश्च सर्व-
त्रैक एवेति ज्ञायते - अत् आन (शतृशानच्) इति । परस्मैपदालिटि परं
वस् (क्वसु) इति विशेषः। इत्थं च लिङ्- लोडादयः प्रकारा इवाख्यातक-
मपि आख्यातस्यैव रूपभेद इति सिद्धम् । विशेष्यमाख्यातं स्ववाच्यका-
रकानुरोधेन पुरुषवचने दर्शयति; विशेषणमाख्यातकं स्वविशेष्यभूतनामानु-
रोधेन लिङ्गविभक्तिवचनान्यादत्ते इत्येव हि विशेषः । सपरिवार आख्या-
तविभागः सुखार्थ पट्टिकया प्रदर्श्यते-
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/११८&oldid=347360" इत्यस्माद् प्रतिप्राप्तम्