सन्धिप्रकरणम् ।
ते अग्ने अश्वमायुञ्जन् । ते अस्मिञ्जवमादधुः । उपप्रयन्तो अध्वरम् ।
प्रत्यु – ( अव्यपरे किम् ? ) तेऽवदन् । तेऽयस्मयम् ।
(अन्तःपादं किम् ?) कया मती कुत एतास एतेऽर्चन्ति ।
'अव्यपर' इति निषेधस्य निषेधमाह -
(१७७३) अव्यादवद्यादबक्र सुरब्रताय मवन्त्ववस्युषु च। ६ । १ । ११६
अव्यात्, अवद्यात्, अवक्रमुः, अव्रत, अयम्, अवन्तु, अवस्यु इत्येतेषु
परेष्वपि अन्त:पादमेङ् प्रकृत्या । यथा -
अग्निः प्रथमो वसुभिर्नो अव्यात् । मित्रमहो अवद्यात् । मा शिवासो अवक्रमुः ।
ते नो अव्रताः । शतधारो अयं मणिः । ते नो अवन्तु पितरः । कुशिकासो अवस्यवः ।
यजुषि पाढ़ानामभावा-दप्राप्तं विद्धाति ।
उरो अन्तरिक्षम् ।
यथा-
आपो अस्मान्मातरः शुन्धयन्तु ।
जुषाणो अप्नुरज्यस्य । वृष्णो अशुभ्यां गभस्तिभिः ।
वर्षिष्ठे अधि नाके । अम्बे अम्बाले अम्बिके ।
(१७७४) यजुष्युरः । ६ | १ | ११७ |
(१७७५) आपो-जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वे ।
१६२।६।१ । ११४ ।
११
,
(१७७६) अंग इत्यादौ च । ३ । १ । ११९ ।
उदाहरणेष्वन्तिमं तथैवै यजुषि स्थितम् । 'अम्बार्थनद्यो'- रिति
हखो बाहुलकाच्छन्दसि न भवति । अम्बादयः शब्दा द्राविडीत उपात्ताः
स्युरिति संभावनामयं प्रयोगः स्थिरयति । यजुषि भाषान्तरतः प्रातिपदिक-
मात्रमुपात्तम् । लोके तु संबुद्धिरूपमप्यनुकृतं भवितुमर्हति । द्राविड्यां
हि ‘अम्म’ ‘अक्क' ‘अल्ल' (?) इत्येव हि सम्बुद्धिः । 'अम्माळ्'
() इति द्राविडं पदं 'अम्बाला' इति, 'अक्काळू' (अनी )
इत्येतत् 'अक्काला' इति च संस्कृतीकृतं प्रतिभाति । यास्केनैतानि पदानि
न निरुक्तानि ।
(5)
यथा--ऐन्द्रः प्राणो अङ्ग अङ्ग आदीध्यत् ।
(१७७७) अनुदात्ते च कुधपरे | ६ | १ | १२० ।
अनुदात्ते कवर्गधकारपरे चाति एङ् प्रकृत्या स्यात् यजुषि । यथा--
अयं सो अग्निः । अयं सो अध्वरः ।
पृष्ठम्:Laghu paniniyam vol2.djvu/२२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति