एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रुतविधिः ।
'स्त्रीयेति' इति स्फुटस्यैव यकारस्यागमः; अन्ते च 'स्येति' इति इकारस्य
यादेश इति । एकस्वरघटिते पदे स्वरस्य विकारेण पदस्य रूपहानिराप-
द्यत इति यणादेशस्थाने यणागमकरणमद्यापि विरलतया दृश्यते । तथा-
हि' त्रियम्बकं संयमिनं ददर्श' इति कालिदासः । 'भूवादि'-रित्येव प्रथमं
धातुगणं व्यपदिशत्याचार्यः ।
दीर्घाणामेवायं प्रकृतिभाव इति केचिद्व्याचक्षते।
॥ * ॥ न समासे ॥ इति समास एनं निषेधति कात्यायनः 1
पुतविधिः ।
(१७८०) वाक्यस्य टे: प्लुत उदात्तः । ८ । २ । ८२ । इत्यधिकृत्य ।

(१७८१) प्रत्यभिवादेऽशूद्रे | ८ | २ | ८३ |
अभिवादितेन गुरुणा प्रयुक्ता आशीः प्रत्यभिवाद: ; तत्र प्रयुक्तस्य
अशूद्रविषयकस्य वाक्यस्य टेः प्लुतः स्यात् । स चोदात्तः । यथा-
आयुष्मानेधि देवदत्त३ ।
(शूद्रविषये तु) आयुष्मानेधि तुषजक ।
॥ * ॥ स्त्रियामपि प्रतिषेधो वाच्यः ॥ आयुष्मती भव गार्गि ।
॥ 8 ॥ भो राजन्यावेशां वा ॥
-
-
आयुष्मोनधि देवदत्त भो३:, भा: - आयुष्मानेधीन्द्रवर्म३न्, -र्मन् ।
आयुष्मानेधीन्द्रपालित ३, -त ।
(१७८२) दूराद्धते च । ८।२।२४।
दूरात्सम्बोधने वाक्यस्य टेः ठुत उदात्तः । यथा-
आगच्छ भो माणवक३ ।
१००(१७८३) हैहेप्रयोगे हैहयोः | ८ | २ | ८१ |
अनयोर्निपातयोः प्रयोगे अनयोरेव प्लतो न तु वाक्यान्तगतम-
म्बुद्धेः । यथा-
हे३ देवदत्त; देवदत्त हे३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/२४&oldid=347262" इत्यस्माद् प्रतिप्राप्तम्