तिङन्तप्रकरणम् ।
(१८३७) आत ऐ । ३ । ४ । ९५ ।
लेट्सम्बन्धिन आकारम्य ऐकारः । तेन आतां =ऐतां । आथां=ऐथाम् ।
आत्मनेपदप्रथममध्यमद्विवचनयोरिति फलति । 'लेटोऽडाटौ' इत्याडागमस्य
तु विधानसामर्थ्यादैत्वं न ।
(१८३८) वैतोऽन्यत्र । ३ । ४ । ९६ ।
आत ऐ इत्यस्य विषयं वर्जयित्वा एत ऐ वा । अन्यत्रेत्युक्तेः
प्रथममध्यमद्विवचनयोर्न । यथा-
-
मदग्रा एव वो ग्रहा गृह्यान्तै
प्रत्यु – मन्त्रयैते मन्त्रयैथे ।
(१८३९) इतश्च लोपः परस्मैपदेषु | ३ | ४ | ९७ ।
लेट
इकारस्य (तिप्सिझिमिप्सु स्थितस्य) लोपो वा ।
(१८४०) स उत्तमस्य । ३ । ४ । ९८ ।
वस्मसोः सकारलोपो वा ।
एवं लेटि पुरुषप्रत्ययाः
अत् अतः अन्
अस् अथः अथ
अम् अव
अम
अतै ऐते
असै ऐथे
ऐ
अवहै
आन्तै
अध्वै
अम है
15 विकल्पादेकारादेशं इतो लोप च विनापि रूपाणि । आडागम-
पक्षे आत् आतः इत्यादयो दीर्घाद्याः प्रत्ययाः ।
(१८४१) सिब्बहुलं लेटि | ३ | १ | ३४ |
लेटि सिप् संस्करणप्रत्ययो बहुलं स्यात् । ऌलुटोः स्यतासी इव लेटि
सिप् शाश्वतो विकरणप्रत्ययः । किन्तु बाहुलकात् क्वचित् स न प्रवर्तते ।
तेन जोषिषत् तारिषत् इत्यादौ सिन्हश्यते, पताति च्यवयाति
न । 'जुहवत्' 'युनजत्' इत्यादिवद्विकरणान्तराण्यपि न विरलानि ।
इत्यादौ तु
ययाति हत्या
पृष्ठम्:Laghu paniniyam vol2.djvu/३७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति