३२
आख्यातकप्रकरणम् ।
-
न म्लेच्छितवै, नापभाषितवै, – म्लेच्छितव्यम्, अपभाषितव्यम् ।
अवगाहे – अवगाहितव्यम् ।
दिदृक्षेण्यः - दिक्षितव्यः । कर्त्वा हविः – कर्तव्यम् ।
-
-
'कृन्मेजन्तः' 'क्त्वातोसुन्कसुनः' इति केन्य- त्वन्-भिन्नानामव्ययत्वम् ।
(१८६२) अवचक्षे च । ३ । । ४ । १५ ।
अवचष्टे रेश्प्रत्ययः कृत्यार्थे । यथा – नावचक्षे – नावख्यातव्यम् ।
-
(१८६३) भावलक्षणे स्थेण्कृञ्चादचरिहुतमिजनिभ्यस्तो-
सुन् । ३ । ४ । १६ ।
भावलक्षणे वर्तमानेभ्यः स्थादिभ्यः तोसुन् । भावार्थ एव प्रत्ययः-
-
-
आ संस्थातोर्वेद्यां सीदन्ति — संस्थानात् ।
पुरा सूर्यस्योदेतोराधेयः – उदयात् ।
पुरा वत्सानामपाकर्ते: - अपाकरणात्
पुरा प्रवदितोरनौ प्रहोतव्यम्- प्रवदनात् ।
पुरा प्रचरितोराग्नीध्रे होतव्यम् --प्रचरणात् ।
होतोरप्रमत्तस्तिष्ठति – हवनात् ।
आ
आ तमितोरासीत--तमनात् ।
आ विजानतोः सम्भवामेति - विजननात् ।
-
(१८६४) सृपितृदोः कसुन् । ३ । ४ । १७ ।
भावलक्षण इत्येव । यथा-
पुरा क्रूरस्य विसृपो
पुरा जतृभ्य आतृदः - आतर्द्दनात् ।
-
विरशिन्-विसर्पणात् ।
अथक्ताप्रत्यये विशेषः ।
'समासेऽनपूर्वेक्को ल्यप्'-
(१८६५) कापि च्छन्दसि । ७ । १ । ३८ । यथा--
यजमानं परिधापयित्वा - परिधाप्य ।
'क्ता इति वक्तव्ये 'क्यापि' इत्युक्तिः क्वाल्यपोश्छन्दसि परस्परविषयाति-
क्रमज्ञापनाय । तेन 'अर्च्य तान् देवान् गतः' इत्यादिवत् ल्यान्विषये क्ता ।
पृष्ठम्:Laghu paniniyam vol2.djvu/४३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति