एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृदन्तप्रकरणम् ।
(१८७३) आह-गम-हन-जनः- किकिनौ लिट् च | ३ | २ | १७१ ।
आदन्तेभ्य ऋवर्णान्तेभ्यो गमादिभ्यश्च किकिनौ प्रत्ययौ, तौ च
लिङ्कृत् भवतः । लिङ्कवद्भावात् प्रकृतेर्द्वित्वम् । यथा-
पपिः सोमं । ददिर्गाः– आत् ॥
मित्रावरुणौ ततुरिः । – ब
प्रस्तावे——
जग्मिर्युवा । जघ्निर्वृत्रं । जज्ञिर्बीजम् – गमहनजनः ।

अथ क्याचे प्रक्रियाविशेषाः । 'अस्य च्वौ' 'क्यचि च' इति
-
-
(१८७४) न च्छन्दस्यपुत्रस्य । ७ । ४ । ३५ |
पुत्रभिन्नस्य अदन्तस्य क्यच्युक्तं दीर्घत्वमीत्वं च न । यथा-
देवान् जिगाति सुम्नयुः । मित्रयु: ।
(पुत्रस्य तु) पुत्रीयन्तः सुदानवः ।
वृष
रिष्ट
(१८७५) दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति । ७ । ४ । २६ ।
एते निपात्यन्ते । यथा-
दुष्टशब्दात् क्यचि उप्रत्यये
द्रविण
"
-बभ्रिर्वज्रं – ऋ ।
-
99
99
"
"
"
"
दुरस्युः ।
द्रविणस्युः ।
वृषण्यति ।
रिषण्यति ।
(१८७६) अश्वाघस्यात् । ७ । ४ । ३७ ।
अश्वायन्तो मघवन् । मा त्वा वृका अघायवो विदन् ।
(१८७७) देवसुम्नयोर्यजुषि काठके । ७ । ४ । ३८ । यथा-
देवायन्तो यजमानाय । सुम्नायन्तो हवामहे ।
काठकादन्यत्र तु – देवयुः । सुम्नयुः ।
(१८७८) कव्यध्वरपृतनस्यार्चे लोपः । ७ । ४ । ३९ । यथा-
कव्यन्तः सुमनसः। अध्वर्यन्तः। पृतन्यन्तस्तिष्ठन्ति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/४७&oldid=347286" इत्यस्माद् प्रतिप्राप्तम्