स्वरविशेषाः ।
वा श्रयमाणो निपातो वषट्कारः । स वा उदात्ततरेण स्वरेणोच्चार्यः ।
उदात्तस्य यावान् श्रुतिप्रकर्षस्ततः किञ्चिदधिको ध्वनेरारोह कार्यः इत्यर्थः ।
एवमनुदात्ततरमपि वक्ष्यति ।
(१८८८) विभाषा च्छन्दसि । १ । २ । ३६ ।
इदं सूत्रं बहुभिर्बहुधा व्याख्यातम् । वेत्यनुवृत्तौ विभाषाग्रहणं
व्यवस्थित विभाषार्थम् । पूर्वतरसूत्रे 'यज्ञकर्मणि' इत्यस्य प्रतिनिर्देशः
'छन्दसि' इति । अतः छन्दसि वेदाध्ययने स्वस्वशाखानुरोधेन एकश्रुतिः
त्रैस्वर्य वा इत्यर्थः स्वारसिको भाति । एवञ्च पाणिने : काले स्वाध्यायेऽपि
स्वरनिर्बन्धः सार्वत्रिको नासीदित्यायाति ।
(१८८९) न सुब्रह्मण्यायां स्वरितस्य तदात्तः । १ । २ । ३७ ।
सुब्रह्मण्या नाम निगदः, तत्र 'यज्ञकर्मणि-' इति 'विभाषा
च्छन्दसि' इति च विहिता एकश्रुतिर्न स्यात्, लक्षणप्राप्तस्य स्वरितस्य
चोदात्त आदेश: स्यात् ।
१
(१८९०) देवब्रह्मणोरनुदात्तः | १ | २ | ३४ |
सुब्रह्मण्यायामेव ' देवा ब्राह्मणः' इति पठ्यते । तयोः स्वरितस्थाने
अनुदात्त इत्यपवादः ।
(१८९१) स्वरितात् संहितायामनुदात्तानाम् । १ । २ । ३९ ।
एकश्रुतिरिति वर्तते । संहिताविषये स्वस्तिात् परेषामनुदात्तानामेक-
श्रुतिः स्यात् । स्वरितस्योत्तरो भागोऽनुदात्तः । अतस्तदनुगामिनोऽनु-
दात्ताः परभागाभावादेकश्रुत्यैव श्रूयन्त इति न्याय्यमेव । इयमेकश्श्रुतिः
‘प्रचय' इति प्रातिशाख्येषूच्यते । प्रचितानां सङ्घीभूतानामनुदात्तानां पर-
भागाभावात् श्रुतेरा हाबरोहरहितमेकरूपं श्रवण भक्तीत्यर्थयोजना ।
(१८९२) उदात्तस्वरितपरस्य सनतरः | १ | २४०।
उदात्तः स्वरितो वा परो यस्मात् सोऽनुदात्तः सनतरः
तरः
अनुदात्ततरः
स्यात् । अयमपि अनुदात्तत्वप्रकर्षः परभागनिबन्धनः । नीचः, सtion
पृष्ठम्:Laghu paniniyam vol2.djvu/५४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति