स्वरपरिभाषाः ।
-
तोऽनुदात्तस्य (१८९६)' इति सूत्रेण, तदन्ते 'उदात्तादनुदात्तस्य स्वरितः '
(१८९४) इति सूत्रेण च परमुपदिश्यते । उभयत्र चायमनुदात्तस्यादे-
शत्वेनैव निर्दिष्टः । असिद्धकाण्डस्तावद् वर्णविकारोपदेशाय विनियुक्तः ।
अतो विकारात्मनैव स्वरितमाचार्यो गणयतीति स्पष्टम् । ननु षाष्ठे स्वर-
विधौ ‘तित् स्वरित’ (१९०५) इति स्वरितो विधीयते । नाप्ययमनुदा-
तस्थानिकः इति चेत्, सत्यम् । तत्रायं समाधिः - तितः प्रत्यया
विरलाः । उपलभ्यमानेषु च त्रिचतुरेषु 'यत्' ' ण्यत्' 'तव्यत्' 'अत्'
('किमोत्', क्व) इत्येतेषु यण् दृश्यते । यण् चेदयमुदात्तस्थानिकः सम-
येते तदा 'उदात्तस्वरितयोर्यण... (१८९६)'इत्यनेनैव स्वरितो निर्वाह्यः
स्यात् । तथा च समर्थितमस्माभिस्तव्यत्प्रत्यययकारस्य तादृशत्वं 'स्नात्व्या-
दयश्च' (१८६८) इति सूत्रव्याख्यानोपसंहारे । किमोऽति क्वादेशविधाना-
न्नान्वेषणीयो यणादेशः । यण्ण्यतोस्तु 'यतोऽनावः' (१९१४) इत्यादिभिर-
पवादैर्भूयसो विषयस्यापहारात् 'चिकीर्घ्यं' इत्यादावेव स्वरितसाधनाय
प्रयतितव्यम् । तस्य च नायमवसर इति विरम्यते । विमर्शोऽयं वक्ष्य-
माणानां 'उदात्तादनुदात्तस्य स्वरितः (१८९४)' इत्यादीनां विधीनामुपपत्ति
संपादयिष्यति ।
पदेषु यस्य स्वर उपदिश्यते तद्भिन्ना अचोऽनुदात्ता इत्ययं प्रकृतसू-
त्रेण कृतो नियमः शेषनिवात इत्युच्यते । तस्य च प्रयोजनम् -
“आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च
पृथक् स्वरनि वृत्त्यर्थमेकवर्ज पदस्वरः ॥
इति पूर्वाचार्यैः परिगणितम् । 'यासुट् परस्मैपदेषूदात्तो ङिच्च' इत्यागम-
स्य, ‘अस्थिदघिसक्थ्यक्ष्णामनडुदात्त': इत्यादेशस्य, 'धातोः (अन्त उदात्तः) '
'फिषोऽन्त उदात्तः' (फिट्सूत्रं, फिट्=प्रातिपदिकं) इति प्रकृतेः, 'आधुदा-
त्तश्च' इति प्रत्ययस्य च पृथक् पृथक् स्वर उपदिश्यते । तत्र एक एव कार्य
इति परिभाषया नियमः कृतः । विप्रतिषेधप्रसङ्गे 'परनित्यान्तरङ्गापवा-
दानामुत्तरोत्तरं वलीय' इति सार्वत्रिको न्यायोऽत्रापि सञ्चार्यः । विशेषश्च-
पृष्ठम्:Laghu paniniyam vol2.djvu/५६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति