स्वरपरिभाषाः ।
न शक्यते । अतोऽनङ्कितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम् । अनुदात्तास्तु
वाक्यप्रारम्भे सन्देहनिवारणाय याबददात्तदर्शनमकचन्ते । इति । यथा
अनिमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥
अ॒मन्तवो मां त उप॑ क्षियन्ति श्रुधि श्रुत श्रद्धवं ते वदामि ।
स्वरविधौ व्यञ्जनमविद्यमानवत् ॥
703
६ व्यञ्जनान्यगणयित्वैव पूर्वपरव्यवहारादिः क्रियत इत्यर्थः ।
(१८९४) उदाचादनुदात्तस्य स्वरितः । ८ । ४ । ६६ ।
उदात्तात् परस्यानुदात्तस्य स्वरितः स्यात् । उदात्तोच्चारणसमन-
न्तरमेवोच्चार्य माणस्यानुदात्तस्य प्रारम्भ किञ्चिदिवोदात्तरूषणमवर्जनीयम् ।
आरम्भे उदात्तरूषितोऽनुदात्त एव हि स्वरित इत्युच्यते । उच्चैरारूढस्य
ध्वनेरेकपद एव नीचैरवरोहणमनायाससाध्यं न स्यादिति वाचयितृसौक-
र्यानुरोधी विधिरयम् । यथा - अग्निमीळे । अत्र 'निं' इत्युदात्तात् परस्या-
नुदात्तस्य ईकारस्य स्वरितः । असिद्धकाण्डगतत्वादयं स्वरितः शेषनि-
घातं न प्रयोजयति । अत्र पक्षभेदमाह
(१८९१) नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम्
Ou
HIPST
१८१४ । ६७।
उदात्तस्वरितयोरुदयो यस्मादिति बहुव्रीहिः । ताभ्यां परमि-
त्यर्थः । परशब्दार्थे उदयशब्दप्रयोगो ग्रन्थान्ते मङ्गलार्थ इत्याहुः । उक्त
उदात्तादनुदात्तस्य स्वरितो गार्ग्यादिभिन्नानामाचार्याणां मते उदात्तस्वरि-
तयोः पश्योर्न स्यात् । गार्ग्यादयः सर्वत्रेच्छन्ति, अन्ये अनुदात्तपरकत्व
एवेत्यर्थः । यथा- 'अग्निमीळे' इत्यत्र 'ळे' कारस्यानुदात्तत्वात् मीकारः सर्व-
मते स्वरित एव । 'अमन्तवो मां' इत्यत्र 'मां' इति परस्योदात्तत्वात्
वोकारस्य स्वरितत्वं गार्ग्यादिमत एव ।
SGDF
(१८९६) उदात्तस्वस्तियोर्यणः स्वरितोऽनुदात्तस्य | ८ | २४ ।
पृष्ठम्:Laghu paniniyam vol2.djvu/५८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति