एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्ययस्वरः ।
चितः प्रत्ययस्यान्त उदात्तः स्यात् । यथा-
भङ्गुर । भासुर—‘भञ्जभासमि॑िदो घुरच' (११३७)
'अनुदात्तं पदमेकवर्ज' इति शेषनिघातः ।
-
(१९०३) तद्धितस्य । ६ । १ । १६४ ।
चितस्तद्धितस्यान्त उदात्तः स्यात् । पूर्वेण सिद्धे णित्स्वरस्य पर-
"त्वात् बलीयसो बाघनार्थमिदम् । यथा-
क्रौञ्चायन – ‘गोत्रे क्रौञ्चादिभ्यः च्फञ्'
Montan
(१९०४) कितः । ६ । १ । १६५।०
T
तद्धितस्येत्येव । यथा - नाडायन – नडादिभ्यः फक्’ ।
(१९०५) तित् स्वस्तिम् । ६ । १ । १८५ ।
स्पष्टम् । तितः प्रत्ययस्यानेकाच्त्वे तु 'अन्त उदात्तः' इति प्रकर-
णादन्तः स्वरितः । शेषस्य निघातश्च यथा-
वाच्य – 'ऋहलोर्ण्यत् ' । क्व – किमोत् ।
(१९०६) लिति (प्रत्ययात् पूर्वमुदात्तं) । ६ । १ । १९३ । यथा-
'चिकीर्षक: ।—ण्वुल् ।
(१९०७) नित्यादिर्नित्यम् । ३ । १ १९७)
नित्यग्रहणं विभाषानिवृत्त्यर्थम् । 'सौवर्यः सप्तम्यस्तदन्तसप्तम्यः"
इति परिभाषया नित्प्रत्ययान्ता ग्राह्याः । जिदन्तस्य निदन्तस्य चादि-
रुदात्तः । यथा - सौन्दर्य – ध्यञ् । वृष्टि-क्तिन् ।
-
"उदात्तावनुदात्तस्य स्वरितः' इति 'न्द' 'ष्टि' इत्यनयोः स्वरितः ।
(१९०८) उपोत्तमं रिति । ६ । १ ।२१७ ।
रिदन्तस्योपान्त्यमुदात्तं स्यात् । यथा-
-
करणीय - अनीयर् । पटुजातीय- जातीयर्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/६१&oldid=347300" इत्यस्माद् प्रतिप्राप्तम्