तिङ्स्वरः ।
–क्य इत्यादिभिरदुपदेशा बहवः । एवञ्च सुप इव (तिङोऽपि भूयसानु-
दात्ताः । सुप्तिङोरनुदात्तभूयस्त्वं चावश्यकम्, अन्यथा प्रकृतिस्वरस्य विषयः
संकुचेत् ।
५(१९३१) आदिस्सिचोऽन्यतरस्याम् । ६ । १ । १८७ ।
सिजन्तस्यादिरुदात्तो वा स्यात् । पक्षे चित्त्वादन्तोदात्तः । यथा-
मा हि काम्, मा हि काष्टाम् । मा हि लाविष्ठाम्, मा हि लाविष्टाम् ।
सिचश्चित्करणसामर्थ्यादागमानुदात्तत्वमत्र न भवति ।
(१९३२) स्वपादिहिंसामच्यनिटि । ६ । १ । १८८ ।
एषामजादावनिटि लसार्वधातुके परे आदिरुदात्तो वा । यथा-
स्वपन्ति । स्वपन्ति
(१९३३) अभ्यस्तानामादिः । ६ । १ । १८९ ।
अजादावनिटि लसार्वधातुके अभ्यस्तानामादिरुदात्तः । यथा—
ददति । दधतु । जाग्रति । जक्षतु ।
VINE-IF SE
(१९३४) अनुदात्ते च । ६ । १ । १९० ।
अविद्यमानोदात्तेच लसार्वधातुके परेऽभ्यस्ता नामादिरुदात्तः । अन
जाद्यर्थमारम्भः । यथा--
ददाति। जहाति। जिहही॒ते । मिमीते ।
।
(१९३५) भीद्दीभृहुमदजनधनदरिद्वाजगरां प्रत्ययात् पूर्व पिति
। ६ । १ । १९२ ।
एषामभ्यस्तानां पिति लसार्वधातुके प्रत्ययात् पूर्वमुदात्तम् । यथा -
बिभेति । जिहेतं । जुहोति । इत्यादि
(१९३६) अचः कर्तृयकि । ६ । १ । १९५ ।
अजन्तानां कर्तृयकि परे आदिरुदात्तो वा । यथा SGDF
लूयते लूयते वा केदारः स्वयमेव ।
पृष्ठम्:Laghu paniniyam vol2.djvu/६६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति