१. पाणिनीयसिद्धान्तः ।
संज्ञापरिभाषकथनं, प्रत्ययविधिः, (लोपागमादेशरूप) - वर्णविकारो-
पदेशः, एकत्रोक्तस्यान्यत्रातिदेशः, खरनिरूपणं इतीमान् परिमितानेव
विषयानावृत्यावृत्त्य सूत्रैः प्रतिपादयन् पाणिनिः प्रक्रियोपदेशमात्रेण
निर्वृत इव दृश्यते । अथापि सिद्धान्तचर्चायां न सर्वथोदासितमाचार्येण ।
तदर्थेऽपि पञ्चसूत्री विनियुक्तास्ति । तामेनां व्याख्यास्यामः।—‘लुपि
युक्तवद्व्यक्तिवचने' (१३८१) इति लुपा लोपे प्रकृतेः–‘युक्तवद्भाव’शब्दिंतां
लिङ्गवचनप्रत्यापत्तिमुपदिश्य स्वयमाक्षिपति ।--
(१९५५) तदशिष्यं संज्ञाप्रमाणत्वात् । १ । २ । १३ ।
तत् = युक्तवद्वचनं नानुशासनीयम् । कुतः ? संज्ञानामेव प्रामा-
ण्यात् । संज्ञाशब्दा हि नानालिङ्गवचनाः प्रमाणं भवितुमर्हन्ति । पञ्चा-
लानां निवासो जनपद इत्यर्थे अण्प्रत्ययं कृत्वा तस्य लुपि युक्तवद्भाव इति
क्लेशः किमित्याद्रियते? आपः, दाराः, गृहाः, इतिवत् पञ्चाला इति पुल्लिंङ्ग-
बहुवचनान्ता जनपदसंज्ञेत्येवास्त्विति भावः । एवं तर्हि लुञेव मास्त्वित्या-
पतति । तदेवाहोत्तरसूत्रेण -
(१९५६) लुब्योगामख्यानात् । १ । २ । १४ ।
लुबप्यशिष्यः, अवयवार्थो हि नात्र प्रतीयते । तत्प्रत्यायकस्य
प्रत्ययस्यादर्शनादिति भावः । पञ्चालाख्यजनानां निवासभूतत्वादेव
देशस्य तन्नाम्ना प्रसिद्धिरित्यत्र प्रत्यायकलिङ्गाभावाद्योगार्थकल्पनमप्रमाण-
मिति फलितम् | योगार्थकल्पनायामनर्थान्तरमप्यापतेदित्याह-
(१९५७) योगप्रमाणे च तदभावेऽदर्शनं स्यात् । १२ । १९ ।
योगार्थः प्रमाणं चेत् कारणकलापैस्तस्य निवृत्तौ लुप्-प्रकृतेः
शब्दस्य प्रयोगानर्हत्वं प्रसज्येत । पञ्चालजनानां शत्रुमिरन्यतो निष्का-
सने संज्ञापरिवर्तनं कर्तव्यं स्यात् । तेषामेवाभिष्यन्दवमनेन कोसलेषु
9
पृष्ठम्:Laghu paniniyam vol2.djvu/७६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति