एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अक्षरसमानायः ।
महान् भेदश्चोपलभ्यते । पदान्ते दाढर्याय शस्य छः, पदमध्ये शैथिल्याय
छस्य शश्च ।
2010
Ban
उक्तस्यानुमानस्य लिङ्गान्तराण्यपि सन्त्युपष्टम्भकानि । तथाहि
१. 'नादिन्याक्रोशे पुत्रस्य' इति सूत्रस्य भाष्ये 'चयो द्वितीया शरि
पौष्करसादेः' इति वार्तिकं पठ्यते । उदाहियते च 'अख्षरम्' 'अफ्स-
सः,' 'वथ्सः' इति । अनेन खराणां परस्ताच्छशष सैः संयुक्ता नाम तिखरत्वापत्तिं
पौष्कर सादिराचार्यो वाञ्छतीति ज्ञायते । २. मन्त्रशास्त्रे क्षकारो मातृकापाठे
गण्यते । देवनागरे तस्य स्वतन्त्रा लिपिः कल्पिता । ३. प्राकृतेषु वत्सः =
बच्छो; क्षणः = खणो; अप्सराः = अच्छरा इति परस्तात् शषसंसंयुक्तानां
स्वराणामतिखरीभावो दृश्यते । ४. 'अभ्यासे शपूर्वाः खयः' इति पुरस्तात्सं
युक्तानां शरामगणनेन परसंयोगादस्य दार्च्चातिरेकः सूच्यते ।
Pइह विसर्गः पदान्तेष्ववसाने कखपफेषु परेषु चैव दृश्यते इति, प्राणिषु
नखदन्तलोमशृङ्गवदप्रधानं शरीरत्रामङ्गमिति सर्वो जानाति । तथा
किञ्चिदपि दूरं विचारमार्गे बुद्धिः प्रहीयते चेदन्ये वर्णा गडुश्वयथुप्रभृतिव-
द्विकारजन्या इति स्फूटीभविष्यति । तथाहि--
,

झलि परे पदान्ते च हकारस्य घोषाः; शकारस्य षकारः, चवर्गस्य
कवर्गश्च विधीयन्ते । तेन ह-श-चवर्गाः पदमध्ये स्वरमध्यमानुनासिकेषु
परेष्वेव श्रूयन्त इति सिद्धम् । अतश्चैतेऽपि विसर्गवदेवासार्वत्रिकाः। विसर्गः
पदान्तमात्रदृष्टः, एते पदमध्यमात्रदृष्टा इति वैपरीत्यमेव भेदः । तथापि
स्वरयोगक्षमत्वात् तेषां स्वतन्त्रवर्णता लोके प्रतिभासते। स्वर एव ह्यक्षरस्य
जीवनाडी; लिपयश्च स्वरोपस्कृतान्येव व्यञ्जनानि चिह्नयन्ति । एवञ्च
यथा विसर्गो नैसर्गिकरेफस्य रुत्वापन्नसकारस्य वा विकारस्तथा हकारों वर्ग-
चतुर्थानां, शकारः षकारस्य, चवर्गः कवर्गस्य च विकार इतिज्ञायते ।
बकारः पुनर्मूर्द्धन्यादेश
विधानादिभिर्बहुत्र सकारप्रकृतिक इति स्फुटम् ।
अत ऊष्मसु सकार एक एव प्रकृतिसिद्धः, अन्ये विकारा इति फलितम् ।
दृश्यते च धातुषु नामसु च शषसानां देशभेदादिभिर्महत्यव्यवस्था ।
,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/८९&oldid=347331" इत्यस्माद् प्रतिप्राप्तम्