एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभक्तयः ।
। पञ्चम्येकवचने युष्मदस्मदोरदन्ताना त्रैव व्यावर्तकः प्रत्यय उपल-
भ्यते । शेषेषु षष्ठयैकवचनमेव पञ्चम्येकवचनकृत्यमपि करोति । पञ्च-
म्या द्विवचन बहुवचने पुनश्चतुथ्य सह तुल्यं संविभक्ते । अतः पञ्चमीवि-
भक्तिरासन्नाभ्यां षष्ठीचतुर्थीभ्यां रूपेण व्यावतयितुं प्रायो न शक्यते ।
यथास्मिन्नेव प्रतिज्ञावाक्ये | कवयस्तावत् सङ्कटेऽत्र सर्वनामभ्यो विहितं
तस्प्रत्ययं नामान्तरेभ्योऽपि “वन्यः सरित्तो जग उन्ममज्ज" इत्यादिवत्
प्रयुञ्जते । अदन्तसर्वनाम्नां डेङस्योः स्म इत्यागमो भवति । ङिस्तदा स्मिन्
इति विकरोति च । छन्दागोथिकादिष्वपि किञ्चिद्विकृतो दृष्टोऽयं स्मकारः
कस्यापि खिलीभूतस्य सर्वनामशब्दस्यावशेष इत्याहुः । स्त्रियां ङीपि लुप्त-
मकारोऽयं स्यै स्याः स्यां इति रूपमापद्यते ।
'तस्माच्छसो नः पुंसि' इति नकारादेशविधिश्चरित्रपर्यालोचनायां
नकारागमो भवितुमर्हति । 'तस्माच्छसो नुं पुंसि' इति सूत्रितेऽपि संयोगा-
न्तलोपेनाभीष्टं रूपं सिध्यत्येव । अन्यच्च लभ्यते महत्प्रयोजनम् ।
तथाहि—- इह ‘अत्रानुनासिकः पूर्वस्य तु त्रा' 'आतोऽटि नित्यम्' 'अनु-
नासिकात् परोऽनुस्वारः' इति महान्तं परिकरं बढा पाणिनिः 'समः सुटि'
‘पुमः खय्यम्परे’ ‘नश्छव्यप्रशान्' 'उभयथक्षु' 'दीर्घाटि समानपादे'
'नॄन् पे' 'स्वतवान् पायौ' 'कानाम्रेडिते' इत्यष्टभिः सूत्रैः रुं (क्लीयत्वे रु वा'
विदधाति । एषु प्रथमसूत्रेण 'संस्कर्ता' इति रूपं साध्यते । तद्धि रूपं
मोऽनस्वारेणैव सिद्धम् । किमिति स्वयं सिद्ध्यदेव साधयितुं मकारस्य
रुत्वविसर्ग सादेशानुस्वारागमा इति प्रक्रियापरम्परामुपदिश्य शिरोवेष्टनेन
प्राणायामः क्रियते? किञ्चात्र जिह्वामूलीयवारणाय 'संपुङ्कानां सः', सूत्रे
सकारप्रश्लेषो वा कर्तव्य इत्यनर्थान्तरं च जागर्ति । अथ रुत्वे कृत एव
द्विसकारं रूपं लभ्येतेति चेत्तदपि 'अनचि चे'ति द्वित्वेन सुकरम् । न च
अचः परत्वरूपं निमित्तं नास्तीति वक्तुं शक्यते । अयोगवाहानामट्सूपदे-
शस्य सम्प्रतिपन्नत्वात् । अथवा 'समो वा लोपमेके' इत्युक्ता स्थितं सका-
रमेव निष्कासायतुं यतमाने भगवति भाष्यकारे कस्यायं दुराग्रहस्तमात्रे-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/९७&oldid=347339" इत्यस्माद् प्रतिप्राप्तम्