पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१ अङ्कः] लटकमेलकम्, । ३
सूत्रधारः-अलमतिप्रलपितेन.। यतः |
चित्रं चरित्रं स्खलितत्रैतानां शीलाकरः शङ्खधरस्तनोति ।
विद्वज्जनानां विनयानुवताँ धात्रीपवित्रीकरणः कवीन्द्रः |॥ ७ |l
किं च | गुर्विदुरा॒जपुरस्कृतायाः सरस्वत्याः कुतो दुर्जनतर्जनावकाशः ।
उत्तं च तेनैव कविना- r

  • वक्रा विश्वविरोधिनः कतिपये द्वित्राः पवित्राशय्ः>

क्रूरोक्तिप्रकरोद्धुरास्त्रिचतुरा दोषोन्मुखाः पञ्चषाः ।
दृष्टः कापि लसद्विजिह्वदमनव्यापारलीलैानिधे-
गेॉविन्दादपरः परः परगुणग्राही न कश्चित्पुनः ॥l ८ ll*
डैन्यच्च |
कतिपयनिमेषवर्तिनि जन्मजरामरणविह्वले जगति |
कल्पान्तकोटिबन्धुः स्फुरति कर्वीनां यशःप्रसरः |॥l ९ ll
(नेपथ्ये })
मुखकमलं परिचुम्बन्नैलिभरदरदलितपद्मिनीनिवहः |
अयमुपसर्पति मन्दश्चन्दनवन्पावनः पवनः ॥ १० ॥
सूत्रधारः-(अाकाशे कर्ण दत्त्वा )
द्विमुखानां पटुडिण्डिमगोर्मुखझिल्लीमृदङ्गपटहानाम् |
अयमपरः श्रुतिहारी विहरति गगनाङ्गणे निनदः ॥ ११ ॥
(र्षुरोऽवलोक्य ) अये, दन्तुरायाः कुट्टन्याः पुरतो भुजंगसंगीतकं वतैते । त-
दुपस॒र्पामि । (इति निष्कान्तः )
प्रस्तवन |
1.• *र्गौविन्ददेव' क; *गोविन्ददेवेश्वर' ख. २. *लीलानिधिः? ग. ३. अस्सादन-
न्तरं क-पुस्तके **देवृदेवप्रतिमः केन न वन्द्यते दुर्जनः । *श्शूली गुणप्रहविधौ खजनेषु
चक्री विश्वापकाररचने चतुराननोऽसैौ । दोषं निरीक्षयितुमेष सहस्रनेत्रः किं वण्र्यते-
ऽमरवरप्रतिमो द्विजिह्वः ॥ इल्यधिकमस्ति. ४. ‘अपि च' क; ‘किं च* गा. ५. *रति-
रसपरिमलित? क; *अतिभरदलमलित' गा. ६.**गोमुखलाञ्छव? ख. ७. *श्रुत्वा पुरो-
ऽवलोक्य च? स्ख.