पृष्ठम्:Maharaja Collage Sanskrit Journal Issue1 Volume1.djvu/१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका वेदार्थविचारेनिमित्तवादः १३ ततश्च स्वर्गकामना यागादिकं प्रति निमित्तम् । निमित्ते सति नैमित्तिकं प्राप्नोति । यथा परस्वकामः प्रायश्चित्तं कुर्यादित्यत्र का मना निमित्तमेव तथा स्वर्गकामना स्वार्थपरता यागं प्रति निमित्तमेव। तथाच यदा पुरुषाणां धनधान्यादिलक्षणसमृद्धौ सत्यां तत्रानुबुभूषाल क्षणा कामना समुदेति, तदा यागदानहोमादिरनुष्ठेयः देवतोद्देशेन द्रव्यत्यागः कर्तव्यः व्ययीकर्तव्यः स्वार्थपरित्यागः कर्तव्यः इत्याभि प्रायः । तत्र च कामना निमित्तामति निमित्तवादः ॥ तत्र शास्त्रीयां प्रवृत्तिं नित्यां नैमित्तिकीं काम्यामिति त्रेधा विभज्य तीर्थकराः जैमिन्यादयो महर्षयः संप्रदायविशारदाः न्यबभ्रन् महान्तं शास्त्रकलापमिति, तत्र निश्शेषा अपि वैदिक्यः प्रवृत्तयः नैमि तिक्य एव भवितुमर्हन्तीति वादिनां प्राचां पन्थानमर्द्यादूदुषान्नि । विश्वविद्वज्जनविदितो f अत्र नित्याया अपि प्रवृत्तेः स्वर्गः फलमिति शाबराः मोक्षः फलमित्येकभविकाः, , पापक्षयःअननुष्ठाननिबन्धनप्रत्यवायपरिहारो वा फलमिति कौमारिलाः, सुखलक्षणो नियोग एव फलमिति काकृतः पितृलोकप्राप्तिरिति स्मृतिविदःप्राजापत्यलोकमाप्तिरिति पुराणाविदः इति तत्तद्वाक्यैरेवावगम्यते । नैमित्तिकीनां काम्यानां च फलसंयोगः तेषां सर्वेषामप्यविगीत इति नात्र सूचनीयं किंचिदस्ति । येनकेनापि प्रकारेणैते सर्वेऽपि तीर्थकराः फलसंयोगवादिन एवेति धीमतामतिरोहितम्। ये पुनस्सर्वासामपि वैदिकानां प्रवृत्तीनां नैमितिकतावादिनः फलाभाववादिनः तेषां सिद्धान्तं परिगृय प्रयतामहे तद्रहस्यं प्रकाश यितुम् । तत्र काम्यानां कामना निमित्तं, नित्यानां ऋणापाकरणं, शुचिर्जीवनं वा इति सर्वेऽपि प्रवृत्तिर्नामत्तिकीति सिद्धान्तः अयमपि स्यात् प्रायः कामप्रध्वंसपक्षः, य आत्मविज्ञानाधकार सिद्धयर्थः -कामविलयद्वारा धीशेषत्वलक्षणः कर्मणां कामप्रध्वंसः फलमीतिवादः प्राचीनैरौपनिपदैर्विशदीकृतः नवीनैरनूदितः कर्मकाण्ड ज्ञानकाण्डयोः विरोधस्य परिहारक्रमविशेषः । तत्र कामप्रध्वंसः त्रिविधः भोगेन त्यागने दोषदर्शनेनेति च । तचरणम् स्वर्गकामः प्रामकामः शत्रुवधकामः पशुकामो वा यजेतेत्यादिषु वाक्येषु श्रूयमाणस्य स्वर्गादिशब्दस्यार्थः क इत्यनुयोगे सर्वेषामेव शब्दा नामर्थज्ञाने लैकिकः प्रयोगेऽभ्युपायः । तस्मिथ प्रयोगे द्रव्यवचनः स्वर्गादिशब्दो लक्ष्यते । कौशिकानि सूक्ष्माणि वासांसि स्वर्गः । चन्दनानि स्वर्गः। द्वयष्टवर्षा वरारोहास्वर्गः। ग्रामः स्वर्गः। पशुः स्वर्गः यद्यत्प्रीतिमद्दव्यं तत्स्वर्गशब्देनोच्यते । तेन सामानाधिकरण्यात् प्रीति मडव्यं स्वर्ग इति मन्यामहे । फलसंयोगवादिनः पुनः प्रीतिमेव स्वर्ग पदाभिधेयां मन्यन्ते तत्साधनतां च यागादेरभिदधते नैवं न कामसंपरया तन्नाशोऽदशतैरपि । तसेवातोऽतिष्ठाद्धिस्स्यात् निवृत्तिर्देषदर्शनात् ॥ न जातु कामः कामानामुपभोगेन शाम्यति । हाविषा कृष्णवरमेव भूय एवाभिवर्धते ॥ इति । तत्र प्रथमः पक्षः सांख्याभिमतः प्रदूषितः । द्वितीयः पुनस्साधनविध्वंसनेन विश्वंसः। कारणाभावे कार्या भाव इति सुगृहीत एव । स एव च निमित्तवादेऽन्तर्भवितुमर्हतीत्युप पादयिष्यामः। तृतीये पक्षे पुनस्सूरिभिरेव विक्रान्तामिति नास्माकमव शिष्यते किंचित् । । सुरेश्वरसंबन्धवार्तिकम् , ३४६ श्लो. Digitised by Ajit Gargeshwari For Karnataka Samskrita University