१८ श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका विधिर्हि प्रवर्तनात्मकत्वात् अपुरुषार्थफले व्यापारे पुरुषस्य प्रवर्तयितुमशक्यत्वेन प्रवर्तनात्मकविध्यन्वयादेव समीहितरूपे भाव्येऽपे- क्षित तद्विशेषमात्रं वाक्यादवगम्यते । ’ कार्यस्य फलानपेक्षत्वात् अपेक्षितो नियोज्य एव स्वर्गकामादि- शब्दैः प्रतिपाद्यत इति ये मन्यन्ते तेषां कामना निमित्तं स्यात्, न फलत्वं स्वर्गस्य सिद्धयेत् । सा च सिद्धत्वात् शक्नोत्येव “ स्त्रीकाम: प्रायश्चित्तं कुर्यात्" इतिवत् निमित्तत्वेनैव नियोज्यमवच्छेत्तुम् । एवं च सति सर्वलोकावगतक्रियाकार्याभिधानं लिङ्कृतेरबाधितं भन्नति । आरोग्यकामो हरीतकीं भक्षयेदित्यादाविव कामनास्वभावबाधो न युक्त इति चेन्न, श्रुतिप्राबल्यात् || कामना हि स्वभावत एव काम्यप्रधाना । निमित्तत्वे च सति तत्प्राधान्यं हीयेतेति फलत्वमेव युक्तमिति चेन्न, श्रुतेर्लिङ्गालीयस्त्वात् । कामनास्वभावो हि लिङ्गम् । तस्य च निमित्तपरत्वे बाधः, फलपरत्वे तु श्रुतेर्बाधः ॥ । तत्र लिङ्गानुग्रहेण श्रुतिं बाधित्वा फलपरत्वमभ्युपेयताम् ? उत श्रुत्यनुग्रहेण लिङ्गं बाधित्वा निमित्तपरत्वमिति संदेहे श्रुत्यनुग्रहो न्याय्यः, फलपरत्वे हि तस्य कालान्तरभावित्वात् तत्साधनत्वं क्षणभङ्गुरस्य कर्मणः साक्षान्न संभवतीति कल्पनापरंपराप्रसङ्गः ॥ ततश्च साधनसाधनत्वं तु स्यात्, न च किल साधनं फलं लिप्समानेन साधने साक्षात्प्रवर्तितुमशक्नुवता श्रीहिकामेनेव कर्षणं कार्यतयाऽवगन्तुं शक्यमित्यनया स्वतन्त्रया प्रक्रियया लोकविरुद्धया लिङ्ङ्कृतेः लोकसिद्धकार्याभिधानपरित्यागेन अलौकिकापूर्वाख्यकार्याभि- धायित्वं कल्पनीयमिति श्रुतिबाधप्रसङ्गात् निमित्तपरत्वमेव ज्यायः ॥ । १५७ पु वेदार्थविचारे- निमित्तावदः नैमित्तिकस्यैवानुष्ठानस्य यावज्जीवकालाभ्यासः यावज्जीववाक्येन विधीयते इति नित्यत्वमप्युपपद्यते । इत्यादि । यावजीवं चाग्निहोत्रं जुहोतीति विधीयते । वसन्ते च वसन्ते च यजेत ज्योतिषेति च ॥ प्रत्यब्दं च यजेतैव चातुर्मास्यैरितीर्यते । एवं नैमित्तिकं सर्व नित्यान्नैवातिरिच्यते ॥ अमुमेव च सिद्धान्तं खण्डदेवोऽपि भाट्टदीपिकायामेवमन्ववादीत् (६-१-१) अथवाऽस्तु “ स्त्रीकामः प्रायश्चित्तं कुर्यात्” इतिवत् स्वर्ग- कामनाया अपि निमित्तत्वम् । ततश्च निमित्ते नैमित्तिकाकरणे प्रत्यवा- यमात्रं न तु करणे किंचिदिष्टं, अकरणे प्रत्यवायभियैव च पुरुषप्रवृत्ति सिद्धेः न विधिवैयर्थ्यम् । सर्वथा यागस्यैव भाव्यत्वेन इष्टसाधनत्वा भावात् फलेच्छा न प्रवर्तकामिति ॥ 1 निमित्तवादोऽयमेषः प्रायो बादरिसम्मतः । क्रियावाक्यार्थवादी सः शेषलक्ष्ये व्यवस्थितः ॥ क्रियैव तावत्कार्यात्मा प्रेरणात्मा फलार्थिता । • प्रतीयते ततोऽन्यस्तु पदार्थो न हि तादृशः || स चोदनामतिकामेद्यः क्रियां नानुतिष्ठति । हेतुकोऽवैदिकश्च स्यात् यो भवेत्फलकामुकः ॥ स्वयं च कृपणो भूत्वा शास्त्रं कृपणयत्यपि। • इति बारिसिद्धान्तः ज्ञातव्योऽन्यत्र विस्तरः ॥ नियोगसाम्राज्यम् तस्मादहरहस्सन्ध्यामुपासीतेति शासनम् । स्वाध्यायोऽध्येतव्य इति यजेत ज्योतिषेति च ॥ 1'जे. सू. 3-1-3. Digitised by Ajit Gargeshwari For Karnataka Samskrita University
पृष्ठम्:Maharaja Collage Sanskrit Journal Issue1 Volume1.djvu/१३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति