१० श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका स्वस्वोत्कर्षप्रतिपिपादयिषया वैदिकमतोपदेष्टभिर्विवदमानाः बहुविधानि प्रमाणशास्त्राण्यारचयन् । वैदिकमतावलम्बिनस्सूत्रकाराः भाष्यकाराश्च तेषां प्रमाणानामाभासान् स्फुटं प्रतिपाद्य वैदिकदर्शनानि यदि नास्थाप- यिष्यन् तर्हि वैदिकमतवार्ताऽपि नेदानीं श्रुतिपथमागमिष्यत्, भरत- खण्डस्सर्वोऽपि जैनमयो बौद्धमयो वा अभविष्यत् ॥ दिष्ट्या भगवद्वादरायणप्रभृतयस्सूत्रकाराः श्रीशङ्कराचार्य रामा नुजाचार्य मध्वाचार्यप्रभृतयो भाष्यकाराश्च श्रुतिसम्मतया प्रमाणप द्धत्या परमतेषु दृष्टान् प्रमाणाभासान् बाढं भास्वानिवान्धकारं खण्ड- यित्वा वैदिकदर्शनान्यस्थापयन्निति विदितमेव ॥ 1 इदानीं तु भौतिकादीन्यनेकानि प्रत्यक्षादिप्रमाणानुगुणानि. शास्त्राणि जनानामैहिकसुखसाधनसिषाधयिषया विद्वद्भिरनुगृहीतानि प्ररू- ढमूलानि भूत्वा 'न ज्ञानं नवा यज्ञादिकर्म परलोकसाधनम्, किन्तु भौतिकशास्त्रसाध्यं किमपि खयानम् ; न शाश्वतिकसुखलाभो दुःख- सम्मिश्रैहिकसुखत्यागात्, अपितु दुःखध्वंसैकसाधनाद्वैषज्यशास्त्रज्ञानात् ; नचानावृष्टिनिरासः पर्जन्यजपात्, अपितु मेघोत्पादकाच्छतघ्नमुखा- दायसगुलिकावर्षात् ;' इति ऐहिक सुखपारम्यं प्रकटय्य जनमनांस्या - दर्शनेषु विगतश्रद्धानि चिकीर्षन्ति । तदत्र भौतिकशास्त्राविरोधेन जनमनांसि यथा वैदिकमतान्याद्रियेरन् तथा सयुक्ति शास्त्रार्थान् एतत्पत्रिकाद्वारा बोधयितुं पण्डिताः प्रभवेयुरित्येतदप्यस्याः पत्रिकायाः प्रकाशने प्रयोजनम् । याचं बह्वयस्संस्कृतपत्रिकाः इदानीं भरतखण्डे तत्र तत्र मुद्रापयित्वा प्रकाश्यमाना वर्तन्ते न तासु परमतेषु भौति- कादिशास्त्रेषु वा दृश्यमानाः प्रमाणाभासाः चर्च्यन्ते इति विदि- तमेव, तस्मादेषा पत्रिका प्रकृतकालोपयोगिनीति मन्यामहे. वि. सुब्रह्मण्य अय्यर् . वेदार्थविचारे-निमित्तवाद ॥ श्रीः ॥ वेदार्थविचारे- निमित्तवादः 1 अयि महाभागाः अशेषजनसंभावनीयाः असंभवदवद्यगन्धाः अवगतसकलकलाकलापाः इदमिदानीमवधारयितुमर्हन्ति तत्रभवन्तो भवन्तः यदास्माकनिमहाराजसंस्कृतपाठशालाया अपि बहोः काला- दितः कान्वन संस्कृतपत्रिका समुपक्रमते प्रचरितुम्. द्वारा चानया कंचन विषयमिच्छत्ययमपि जनो महतामुपहारीकर्तुम् सच विषयः प्राचीनसंप्रदायसमागतः इदानींतनैरपि भङ्गयन्तरेणाङ्गीकृतः वेदस्यैवार्थः।। लोके खलु पुरुषाणां प्रेक्षावतां प्रवृत्तिः द्विविधा सर्वत्र सर्वदा सर्वैरप्यध्यक्षीक्रियते लौकिकी वैदिकी चेति । तत्राद्या- प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते । एवमेव प्रवृत्तौ तु चैतन्येनास्य किं फलम् ॥ भयं नाशङ्कयते यस्मात् फलं वाऽपि तथाविधम् । trai तथाविधस्य राज्ञोऽपि नाज्ञाऽनुष्ठीयते जनैः ॥ 2 इत्यादिना सुधीभिरुपपादिता सर्वत्र विश्रुता फलानुबन्धिनी प्राणिमात्र- सम्मतेत्यत्र नास्ति बहु बक्तव्यम्. निमित्तवादः या त्वनन्तरा लोकोत्तरा वैदिकी शास्त्रविहिता, साऽपि किं फलानुबन्धिनी आहोस्वित् केवलया कर्तव्यमित्येव बुद्धया विधिनिय- न्त्रिततया स्वरूपानुबन्धिनी (स्वयंप्रयोजना) इति संशेरते महीयांसोऽपि विद्वांसः || ११ मीमांसाश्लोकवार्तिकम् 653 पु. Digitised by Ajit Gargeshwari For Karnataka Samskrita University 2 न्यायमन्जरी 355 प.
पृष्ठम्:Maharaja Collage Sanskrit Journal Issue1 Volume1.djvu/९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति