पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बोधायनवृत्तिकारगतः सन्देहः
दरीदृश्यन्ते । जिज्ञासासूत्रव्याख्यानावसरे वृत्त्यनेकत्वमप्युल्लिखितं
तत्रैव — 'तथा च वृत्त्यन्तरे वर्णितम्' इति, 'अन्यैरपि स्ववृत्तौ
वर्णितम्' इति च (अथशब्दार्थवादे ) । तदेवं नास्ति शङ्करभाष्ये
कस्याचेदेकस्यैव वृत्तिकारस्य परामर्श इत्यवगम्यते ॥
अथ सत्यपि वृत्तिकारानेकत्वे बोधायनवृत्तिकारं शङ्करभगवत्पादाः
परामृशन्ति स्म नवेति विचारणीयम् । तत्र श्रीभाष्योदाहतानि बोधा-
यनवृत्तिग्रन्थवाक्यानि सप्तैवेति परिगणितानि श्रीमाद्भः श्रीनिवासाचार्यैः ।
शङ्करभाष्ये तु तानीमानि न कुत्राप्युदाहृतानि दृश्यन्ते, नाप्यद्वैत
भाष्यव्याख्यातारः समुदाजहुरमषां वाक्यानामन्यतममपि । किञ्च
यत्र शाङ्करभाष्ये प्राचीनमतं खण्डितं व्याख्यानकारैश्च वृत्तिकारमत-
त्वेन व्यपदिष्टं तत्र यंत्रकुत्राचदपि श्रीभाष्यकृता वृत्तिकारमतं समु-
द्धृतं चेत्स्यादपि बोधायनः परामृष्टस्तत्रेति । न त्वेवं दृश्यते । तदेवं
नास्ति गमकं शङ्करभाष्योदाहृतेषु बहुषु वृत्तिकारेषु मध्ये बोधायन-
समावेशोऽप्यस्तीति ॥
अथेदं विचारणीयं - बोघायन एव उपवर्ष इत्यत्र प्रमाणमस्ति
वा न वेति । यदि प्रमाणमस्ति, तर्हि बोधायन: प्राचीनतरो
भवति न केवलं शङ्करभाष्यकारात् किंतु तत्पूर्वतरात् शबरस्वा-
मिनोऽपि । यत्कारणं मीमांसाभाष्ये एतद्वाक्यं समुपलभ्यते – अथ
गौरित्यत्र कः शब्दः ? गकारौकारविसर्जनीया इति भगवानुपवर्ष: '
इति । शङ्करभाष्यव्याख्याकारेण चानन्दगिरिणा वृत्तिकारत्वेन व्यप-
दिष्टोऽस्त्युपवर्षः (ऐकात्म्याधिकरणभाष्यव्याख्याने) । अतो उपवर्ष
एव बोधायनश्चेत् ततः स शङ्करशबराचार्याभ्यामुभाभ्यामपि प्राची-
नतर इति सिद्ध्यति । परंत्वत्र प्रमाणं किञ्चिदप्यहं न पश्यामि