पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका
6
यतः श्रीरामानुजभाष्ये क्वचिदपि उपवर्षत्वेन न वर्णितो वृत्तिकारः ।
नापि शङ्करभाष्ये शबरभाष्ये बा बोधायननाम्ना गृहीतो भगवा-
नुपवर्षः । किं चान्यत् - ऐकात्म्याधिकरणे शङ्करभाष्ये समुदाहृतमिदं
उपवर्षवाक्य अत एव भगवतोपवर्षेण प्रथमे तन्त्रे आत्मास्ति-
त्वाभिधानप्रसक्तौ शारीरके वक्ष्याम इत्युद्धारः कृतः ' इति श्रीभाष्यकृता
तु एतदेवाधिकरणं प्रत्यगात्मोपासनापरत्वन अन्यथैव व्याख्यातं,
उपवर्षवाक्यस्यानादरे कारणमपि नोक्तम् । अतोप्यनुमीयते बोधा-
यनोपवषयोरैक्यं नानमन्यते श्रीभाष्यकार इति ॥
यत्सत्यं श्रीभाष्यकारादर्वाचीना विशिष्टाद्वैतग्रन्थप्रणेतारस्तत्र
तत्र स्पष्टं लिखन्ति बोधायन एव उपर्ष इति । इदानींतनाश्च
केचिदभिप्रयन्त्यद्वैतिनोऽपि बोधायन एव स्याद्वत्तिकारः शङ्करभाष्य-
परामृष्ट इति । तथाप्युपरिनिर्दिष्ट न्देहनिवारणं विना तदेतदर्वाची-
नमतं न विमर्शकबुद्धिमारोहत्यनाकुलम् । अतोऽवश्यनिर्धारणीयमेतत्
श्रीमाष्यकारैः तत्प्राक्तनैर्वा यैः कैश्चिद्धोधायनोपवर्षयोरैक्यं स्वीकृतमस्ति
आहोस्विन्नेति ॥
-
अत्रायमन्योऽपि मम सन्देहः - श्रीभाष्यकाराः साक्षाद्बोधायनवृत्तिं
पुरतो निधाय ततो वाक्यसप्तकमाचार्यवरैः परिसङ्ख्यातमुदाहृतवन्तो
वा, उत स्वसम्प्रदायागतमेव तत्र तत्र निर्दिष्टवन्तो वेति । श्रीभाष्यं
हि महत्परिमाणो · ग्रन्थः । तत्र वाक्यसप्तकमेव केवलं समुदाहृतं
विस्तीर्णात्तिग्रन्थादिति चित्रीयते मन्मनः । यदपि श्रीभाष्यगतं
वाक्यं 'भगवद्बोधायनवृत्तिकृतां विस्तीर्णां ब्रह्मसूत्रवृतिं पूर्वाचार्याः
संचिक्षिपुः । तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते' इति । तत्र
तन्मतानुसारेणेति तदा परामृष्टं किं बोधायनमतं, अथवा बोधा-