पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बोधायनवृत्तिकारगतः सन्देहः
यनवृत्तिसङ्ग्राहकपूर्वाचार्यमतं - इति सन्देहास्पदमेव भाति । प्रचलति
च किंवदन्ती विशिष्टाद्वैतिषु यच्छ्रीरामानुजाचार्यः वृत्तिग्रन्थमन्वेषमाणः
सुदूरं प्रयातः काश्मीरपुस्तकालयस्थमेकमेव ग्रन्थं अतिक्लेशात्कोश -
घिकार्यनुमत्या सकृद्दर्शनार्थं संप्राप्तवानिति । एकसन्धिग्राही च तच्छिष्यः
समग्रं वृत्तिग्रन्थं तत्रैव पपाठ, श्रीभाष्यरचनवेलायां वृत्तिवाक्यानि
भाष्यकृते तत्र तत्र निवेदयामासेति च । अतः श्रीरामानुजाचार्य -
काले एव बोधायनग्रन्थ सुदुलभ आसीदित्यवगम्यते । तदेवं बाधा-
यनग्रन्थः श्रीभाष्यकारेण तदन्येन केनचिद्वा साक्षाद्दष्ट इति याव-
नोपपद्यते तावत् बोधायनमतानुसारी वा न वा श्रीभाष्यकारा -
भिप्राय इत्यत्रैव सन्देहोऽनिवारणीय: स्यात् ||
यद्यपि केवलं प्राचीनत्वेन अर्वाचीनत्वेन वा कस्यचिदपि
सिद्धान्तस्य निर्दो त्वं सदोषत्वं वा अभ्युपगन्तुं न न्याय्यम् । तथापि
सम्प्रदायशुद्धमेव वैदिकं मतं साम्परायिकफले उपयुज्यत इति दृढा-
ग्रहवतां सम्प्रदायतत्त्वमपि अवश्यं विचारणीयमेव भवति । ऐति-
हासिकदृष्ट्या तु विचार्यमाणे यद्यपि प्रयोजनान्तरं नास्ति, तथापि
को नु खलु स्यादयं भगवान् बोधायनः' इति विमर्शः तद्गन्थ-
लाभे तदभिप्रायनिर्धारणे च सहकारी भवोदिति सर्वथा विचार-
णीय एवायं विषयः ॥
6
,
अतोऽहं सविनयं संप्रार्थये महामहोपाध्ययान् श्रीनिवासा-
चार्यान् चिरपरिचितानेकग्रन्थान् यथोक्तसन्देहपरिहारेण छात्रजन-
बुद्धिवैशद्यानुग्रहार्थं बोधायनवृत्तिकारस्य कालमधिकृत्य यत्किञ्चिल्ले-
खान्तरं कृपया पत्रिकायां प्रकाशयितव्यमिति ॥
य. सुब्रह्मण्यशर्मा.