पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • मुरारिविरचितैकादशाद्यधिकरणम्

सुविदित एव खलु मीमांसकमूर्धन्यो मुरारिमिश्रानामा सर्वेषां
पण्डितप्रकाण्डानां । तेन च जैमिनिप्रणीतायाः द्वादशलक्षण्याः समग्रं
व्याख्या निर्मितेति च ज्ञायते । अथापि सा व्याख्या अद्यावधि विरलप्रचारा
वर्तते --- अपरा च तत्कृतिरङ्गत्वनिरुक्तिनाम्नी अमुद्रितापि तत्र तत्र
मीमांसकैः पाठप्रवचनादिभिः प्रचारिता दरीदृश्यते । अयं मुरारिमिश्रः
भाट्टमतानुसारीति अङ्गत्वनिरुक्तिस्थप्रतिज्ञा श्लोकेन ज्ञायते । यथा-
मुरारिसंसेवन शुद्धबुद्धिः कुमारिलप्रोक्तमतानुसारी ।
मुरारिरङ्गत्वानरुक्तिमेतां करोति सयुक्तिगणैरुपेताम् ॥
इति । अस्य तर्कशास्त्रे महती निष्णातता च तत्कृताङ्गत्वनिरु-
क्तिपरिशीलनैनैवाबबुद्ध्यते । तथा तद्न्थसमाप्तौ तेनैवोक्तं –
मुरारिनिर्मिता न्यायमीमांसावासितात्मनां ।
-
तोषाय विदुषामेषा कण्ठभूषा प्रकल्प्यताम् ॥
इति । एनामङ्गत्वनिरुक्तिमपरिशीलितन्यायनयाः पाठयितुं न शक्नु-
वन्ति च । तदीयग्रन्थमध्ये द्वादशलक्षणीविवरणे एकादशाद्याधिक-
रणमात्रं इदानीं उपलब्धा समस्ति तत्र किंञ्चिद्विमर्शयामः । भगवान्
जैमिनिर्महर्षिर नेकोद्देशेन सकृदनुष्ठानरूपतन्त्र विचारात्मकं एकादशाध्यायं
सूत्रयामास । तत्र किञ्चित्प्रकृतं प्रस्तूयते । दर्शपूर्णमासयोः आग्नेयः
पुरोडाशयागः उपांशुयाजः आज्यद्रव्यकः अझीषोमीयः पुरोडाशयागः
एते त्रयः पूर्णमाससंज्ञका: आमेयः पुरोडाशयाग: ऐन्द्रो दधि-
यागः ऐन्द्रः पयोयागः एते त्रयः अमावास्यासंज्ञकाः एवं षड्यागाः

  • Annals of the Bhandarkar Oriental Research

Institute—इत्यस्याः त्रैमासिक्याः पत्रिकायाः दशमे संपुढे श्रीउमेशमिश्रैः
प्रकाशितम् । अस्य ग्रन्थस्य एकैव मातृका नेपालमहाराजपुस्तकभाण्डागारे अला-
भाति प्रकाशकैर्निवेदितम् ॥
५४