मुरारि विरचितैकादशाद्यधिकरणम्
प्रधानानि । एतेषां षण्णां यागानां प्रयाजादीन्यङ्गान्याम्नातानि ।
तान्यज्ञान प्रधानभेदेना वर्तनीयानि वा उत सकृदेव सर्वार्थमनुष्ठेयानि
वेत्यादि विचारः एकादशाध्याये क्रियते । तत्राद्याधिकरणमुपोद्धातरूपं
शबरस्वाभिप्रभृतिभिः तस्मिन्नधिकरणे दर्शपूर्णमासाभ्यां स्वर्गका मो
यजेतेतिवाक्यबोधितं फलं षण्णामपि यागानामेकमुतभिन्नमिति सन्दिह्य
उत्पत्तिवाक्ये अन्योन्यनैरपेक्ष्येणोत्पन्नानां फलाकांक्षायां नैरपेक्ष्येणैव
फलसम्बन्धकरणात् प्रयोगोऽपि षण्णां भिद्यत इति प्रतिप्रयोग
अङ्गान्यावर्तनीयानीति पूर्वपक्षं प्रापय्य फलवाक्ये षण्णां यागानां
एतेन यजिना उपादानात्साहित्यावगतेः सहितानां षण्णामेकं फल मिति
प्रयागो न भिद्यते । य एवं विद्वान् पौर्णमासीं यजते इति वाक्येन
पौर्णमासीनामकानां त्रयाणां यागानामेकः प्रयोगः य एवं विद्वा-
नमावास्यां यजत इत्यनेनामावास्यासंज्ञकानां त्रयाणामेकप्रयोगः इति
त्रयाणां त्रयाणामेकैक प्रयोगविधानात् पौर्णमासप्रयोगे त्रयार्थमङ्गानां
सकृदनुष्ठानं अमावास्याप्रयोगे तत्रयार्थं सकृदनुष्ठानमितिं न षण्णा-
मर्थे षड्वारमावर्तनीयान्यज्ञानीति सिद्धान्तितं । शाखदीपिकाकार-
प्रभृतिभिरपि तदधिकरणं यथाभाष्यमुपवर्णितं । मुरारिमिश्रण तु दर्श-
पूर्णमासाभ्यां स्वर्गकामों यजेतेतिवाक्ये श्रयमाणं स्वर्गकामपदं स्वर्ग-
कामरूपकर्तारं वा स्वर्गकामनां वा स्वर्गकामनाकालं वा अंगत्वेन विद -
घाति उत फलसंबन्धं विदधातीति सन्दिय स्वर्गकाम इति कर्तृविभक्ति-
श्रवणेन स्वर्गकामं कर्तारं विदधातीति पूर्वपक्षयित्वा कर्तुराक्षेपादेव
प्राप्तेर्नविधानमिति तत्पदं स्वर्गरूपफलविधायकमेवेति सिद्धान्तितम् ।
अयं विचारः भाष्यकारादिविचारं विरुणद्धीव उपोद्धातरूपतां जहा-
तीव च प्रतिभाति । न तथा मन्तव्यं । कर्त्रादिविधायकत्वफलस-
म्बन्धविधायकत्वविचारस्य फलभेदाभेदविचारफलकत्वात् । तथा हि
यदि स्वर्गकामपदेन कर्त्रादिकं विधीयेत तदा यागानां फलाकांक्षायां
पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/१४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति