पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका
विश्वजिदधिकरणन्यायेन कल्प्यमानं फलं भदेनैव कल्प्येत तदा
प्रयोगोऽपि भिद्यत इति अङ्गानामावृत्तिः सिद्ध्यति । यदि स्वर्ग-
कामपदं स्वर्गरूपफलसम्बन्धं विदधाति तदा तन्त्राभिधानावगतसाहि-
त्यस्य उपादेयगतत्वेन विवक्षितत्वात् सहितानामेव फले विधाना-
त्समुदितानामेकं फलमिति सिद्ध्यतीति न भाष्यादिविरोधः फलैक्ये
प्रयोगभेदाभावान्नावृत्तिरङ्गानामिति नोपोद्धाततापरित्यागः । ननु षष्ठाद्ये
यजेत स्वर्गकाम इत्यादौ यागभावनायाः भाव्याकांक्षायां धात्वर्थस्य
समानपदोपात्तस्य भाव्यत्वं पूर्वपक्षीयत्वा इष्टभाव्यकत्वाभावे प्रवृत्यनुपपत्तेः
स्वर्गकामपदोपात्तस्वर्गस्यैव भाव्यत्वमिति सिद्धान्तितं । अतः स्वर्गकाम-
पदस्य फलपरत्वं सिद्धमेवेति अस्य विचारस्य पनिरुक्तयामिति चेत् ।
न पुनरुक्तो भवत्यय विचार: । षष्ठाद्ये प्रवृत्तिसिद्धयर्थं पुरुषार्थभाव्य-
कत्वं वक्तव्यमित्येव तत्र सिद्दान्तः । न तु स्वर्गकामपदस्य फलपर-
त्वमिति । अत्र तु स्वर्गकामपदस्य फलपरत्वतदभावीवचारस्य चिकी-
र्षितत्वेन पुनरुक्तताशङ्काया नावकाश इति । अत्रेदं चिन्तनीयं ।
एतदीयाधिकरणरचना पूर्वोत्तरीत्या उपपत्तिमत्यपि कथं सूत्रलभ्या
भवति मुरारिणा प्रथमवर्णकत्वेन अयं विचारः प्रवर्तितः । तस्य
सूत्रानारूढत्वे वर्णकत्वं कथं । तस्मिन्नधिकरणे चत्वारि सूत्राणि सन्ति -
प्रयोजनाभिसम्बन्धात् पृथक्सतां ततः स्यादैककर्म्यमेकशब्दा-
भिसंयोगात् ||१||
शेषाद्वा प्रयोजनं प्रति कर्मविभज्येत ॥२॥
अविधानात्तु नैवं स्यात् ॥ ३ ॥
शेषस्य हि परार्थत्वाद्विधानात्प्रतिप्रधानभावः स्यात् ॥ ४ ॥
इति । एतेषु सूत्रेषु कस्य सूत्रस्यैतद्विचारपरत्वमिति शङ्का सुधी-
भिर्मीमांसानिपुणैः परिहरणीयेति शिवम् ||
आरडि कुप्पं. सुब्रह्मण्यशास्त्री.